________________
स्तोत्र-रास-संहिता
वत कथं किल कर्मचौराः ! । प्लोषत्यमुत्र यदि वा. शिशिराऽपि लोके, नीलद्र माणि विपिनानि न कि हिमानी ! ||१३|| त्वां योगिनो जिन ! सदा परमात्मरूप,-मन्वेषयंति हृदयाम्बुजकोशदेशे। पूतस्य निर्मलरुचेर्यदि वा किमन्य, दक्षस्य संभवि पदं ननु कर्णिकायाः ! ||१४|| ध्यानाजिनेश ! भवतो भविनः क्षणेन, देहं विहाय. परमात्मदशां व्रजन्ति । तीव्रानलादुपलभावमपास्य लोके, चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ अंतः सदैव जिन ! यस्य विभाव्यसे त्वं, भव्यैः कथं तदपि नाशयसे शरीरम् ! । एतत्स्वरूपमथ मध्यविवर्तिनो हि, यद्विग्रहं प्रशमयंति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या, ध्यातो जिनेन्द्र ! मवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचित्यमानं, किं नाम नो विषविकारमपा-करोति ! ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि, नूनं विभो ! हरिहरादिधिया प्रपन्नाः । किं काचकामलिमिरीश ! सितोऽपि शङ्खो, नो गृह्यते ? विविधवणीवपर्ययेण ||१८|| धर्मोपदेशसमये सविधानुभावादास्तां जनो भवति.ते तरुरप्यशोकः। अभ्युद्गते दिनपतौ समहीरुहोऽपि, किं वा विबोधमुपयाति न जीवलोकः ? ||१९|| चित्रं विभो ! कथमवाङ्मुखवृतमेव, विष्वक् पतत्यविरला सुरपुष्पवृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश !, गच्छंति नूनमध एव हि बंधनानि