________________
कल्याणमंदिर-स्तोत्र
बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः? |५|| ये योगिनामपि न यान्ति गुणास्तवेश ! वक्तुं कथंभवति तेषु ममावकाशः ? । जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि !|६|| आस्ताम-चिन्त्यमहिमा जिन ! संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थ-जनानिदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ||७|| हृत्तिनि त्वयि विभो ! शिथिलीभवन्ति, जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः। सद्यो भुजङ्गममया इव मध्यभाग, - मभ्यागते वनशिखण्डिनि चन्दनस्य |८|| मुच्यन्त एव मनुजाः सहसा जिनेन्द्र ! , रौद्ररुपद्रव-शतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन ! कथं भविनां ! त एव, त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यजलमेष नून-,मन्तर्गतस्य मरुतः स किलानुभावः||१०|| यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन पीतं, न किं तदपि दुर्धरवाडवेन ! ||११|| स्वामिन्ननल्पगरि माणमपि प्रपन्ना,-स्त्वां जन्तवः कथमहो हृदये दधानाः। जन्मोदधिं प्रति-तरन्त्यति लाघवेन, चिन्त्यो न हंत महतां यदि वा प्रभावः ॥१२॥ क्रोधस्त्वया यदि विभो! प्रथमं निरस्तो, ध्वस्तास्तदा