________________
१०६
स्तोत्र-रास-संहिता
हस्तप्रस्तुतपुस्तके ! तुम्बीफलकराऽऽयुक्त सद्वीणावाद्यवादिके ||३|| विकचीकुरु मेधां मे जाड्यध्वान्तमपाकुरु । विशालाक्षीं पामुखीं भारती प्रणमाम्यहम् ॥४॥ वाचस्पतिस्तुते देवि ! गाढाज्ञानप्रणाशिनि ! मां नित्यं कल्मषात् पाहि विद्यासिद्धयै च मे भव ॥५॥ ब्रह्माणी विश्वविख्यातां प्रसन्ना ब्रह्मचारिणी । वाकशुद्धिं कुरु मे मातः ! यया कीर्ति लभेत्तराम् ॥६|| ॐ ह्रीं श्रीं क्लीं ऐं नमोऽन्ते महामन्त्रस्वरूपिणी । एकाग्रचेतसा ध्यात्रे त्रिपुरा परितुष्यति |७|| द्विसहस्रशराब्देऽदोऽलेखि ब्राह्व- . यष्टकं मया । पठेन्नित्यं त्रिसन्ध्यं यो भोक्ता वक्ता मवेच्चसः ||८|| इत्थं मनो-वचन-काय-विशुद्ध भावाः, पुण्यश्रियं । श्रुत-सुवर्ण-मयां स्तुवन्ति-ज्ञान-प्रधान-पदसाधन-सावधानां-कल्याण-कोटि-कलितां कमलां लभन्ते
॥९॥
॥ श्रीगुरु स्तोत्रम् ॥
यथा प्राणा नराधारास्नथैव सुखसागरः ॥ नित्यं नमामि नाथ त्वां त्वमेव शरणं मम ||१|| चखान दुष्टकर्माणि दिव्यज्ञानदिवाकरः । चारित्ररत्नभण्डारदर्शनं विमलं कृतम् ॥२॥ दानशीलतपोमाव अष्टमातृपरायणः आबालब्रह्मचारी च माविता भावना सदा ॥३|| कषाय