________________
१ सर्गः] . हीरसौभाग्यम् ।
३७ विष्णोनिहन्तुं नरकं गतस्यौत्सुक्यात्क्रमान्निर्गलितेव गङ्गा । ज्योत्स्नीषु यच्चान्द्रगृहच्युताम्भोधारा भुवं भूपयति स्म यस्मिन् ॥११४॥ यस्मिन् पुरे ज्योत्स्नीषु पूर्णिमारात्रिषु यस्य पुरस्य चान्द्रगृहेभ्यः चन्द्रकान्तमणि निर्मितमन्दिरेभ्यश्युतानां चन्द्रकिरणसंपर्केण निःसतानामम्भसां पानीयानां धारा प्रवाहः । 'प्रवाहः पुनरोघः स्याद्वेणी धारा रयश्च सः' इति हैम्याम् ।भुवं भूमी भूषयति स्म अलंकुरुतें स्म । उत्प्रेक्ष्यते-औत्सुक्याद्राभस्यानरकं नरकनामानं दैत्यमसुरं निहन्तुं गतस्य विष्णोः कृष्णस्य क्रमाच्चरणात् निर्गलिता निर्गत्य पतिता। 'विदत्यसव्ये मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे' इति नैषधे । गङ्गा भूमीमभ्येतीव ॥
ज्योतिस्तरङ्गीकृतयन्निकेतहरिन्मणीशालिशिखा चकासे । इदंपदव्येव पतङ्गपुत्री नमः प्रयान्ती मिलितुं स्वतातम् ॥ ११५ ॥ ज्योतिभिः कान्तिभिस्तरङ्गीकृतानां कल्लोलयुक्तीकृतानां यनिकेतानां नगरीगृहाणां हरिन्मणीभिनीलरत्नैः शालते शोभते इत्येवंशीला शालिनी शिखा उपरितनप्रदेशः चकासे शुशुभे दिदीपे वा । उत्प्रेक्ष्यते-इदंपदव्या एतनगरं मन्दिरशिखरमार्गेण । 'इर्दयशांसि द्विषतः सुधामुचे' इति नैषधे । 'अस्य कीर्तयः' इति तद्वृत्तौ । समासान्त एव इदंशब्दः । स्वतातं भास्करम् । 'सूर्यजा यमी' इति हैम्याम् । तथा 'यावद्गङ्गा तपनतनयाभारतीनां समाजे' इति पूर्वकविकृतौ। मिलितुं प्रयान्ती गच्छन्ती पतङ्गपुत्री यमुनेव ॥
गाङ्गेयगारुत्मतपद्मरागचन्द्राश्मवेश्मावलिरुल्ललास । प्रेयांसमुद्दिश्य महीमहेन्द्रं पुरश्रिया क्लृप्त इवाङ्गरागः ॥ ११६ ॥ गाङ्गेयानि सुवर्णानि, गारुत्मतानि हिरण्मणयः, पद्मरागा रक्तोपलाः, चन्द्राश्मानः शशिकान्तमणयः । तैनिबद्धा घटिता वेश्मावलि: सौधश्रेणिरुललास स्फुरति स्म । उत्प्रेक्ष्यते-महीमहेन्द्र भूमीवासवं राजानं स्वप्रेयांसं निजकान्तं प्रत्युद्दिश्य पुरश्रिया नगरलक्ष्म्या अङ्गरागो विलेपनं कुप्तो रचितः । अन्यापि स्त्री भत्री सङ्गं चिकीर्षुर्वपुष्यङ्गरागं कुरुते॥ वेश्माश्मगर्भाङ्कसिताश्मकुम्भं निभाल्य मुग्धाभ्रधुनीरथाङ्ग्यः । शशी स विश्लेषयिता द्विषन्नः क्रुधेति तं नन्ति किमभिघातैः॥११७॥ यस्येति संबन्धात् । वेश्मनि क्वापि नगरीगृहे अश्मगर्भाणां मरकतमणिनामको मध्यो यस्य तादृशं सिताश्मनां स्फटिकरत्नानां कुम्भं कलशं निभाल्य दृष्ट्वा मुग्धा अचतुरा अभ्रधुन्या गगनापगाया आकाशगङ्गायाः रथाङ्ग्यश्चक्रवाक्योऽङ्गीणां पदानां घातैः प्रहारैः घ्नन्ति प्रहरन्ति । किमुत्प्रेक्ष्यते-इति क्रुधा नन्ति । इति किम्-यत् नोऽस्माकं द्विपअहितः अत एव विश्लेषयिता वियोगकारकः स प्रसिद्धः शशी मृमाङ्क इति रुपा ॥ अर्काशुसंपर्कचयाकान्तोद्भूतानलोमावनसंनिभस्य । गेहाप्रशृङ्गस्थगजद्विषद्भिदे॒प्यैरघृष्यस्य कथंचनापि ॥ ११८ ॥