________________
काव्यमाला।
काश्च प्रसिद्धाः ते आयाः पूर्वे येषां तादृशास्त्रीन्द्रिया जन्तवो देहिनो मया कथंचित्केनचन प्रकारेण जानता अजानता वा प्रमादिना सता व्यापादिताः ॥
चत्वारि येषां पुनरिन्द्रियाणि नाभीभवस्येव मुखानि सन्ति । ते मक्षिकाभृङ्गपतङ्गकर्णकीटोर्णनाभप्रमुखा हताश्च ॥ १३४ ॥ पुनर्येषामसुमतां चवारि स्पर्शनरसनघ्राणनयनलक्षणानि शरीरजिह्वानासिकालोचन रूपाणि चतुःसंख्याकानि इन्द्रियाणि अक्षाणि सन्ति । कानीव । मुखानीव । यथा। नाभीभवस्य ब्रह्मणः । 'नाभीमथैष श्लथवाससोऽस्याः' इति नैषधे दीर्घोऽपि नाभिशब्दः । प्राची-अपाची-प्रतीची-उदीचीलक्षणचतुर्दिक्संमुखानि वर्तन्ते । शक्रेण षष्टिसहस्रवर्षकृततपःप्रभावात्खपदाभिकवेधसस्तपोभ्रंशं विधातुं प्रहिताप्सरोभिश्चतुर्दिक्प्रारब्धाखण्ड• . ताण्डवाडम्बरविलोकनकौतुकोत्कण्ठितचेताश्चतुर्दिक्षु चत्वारि वदनानि विदधाति स्मेति . शीलतरङ्गिण्याम् । ते मक्षिका मधुवननीलसामान्याः प्रसिद्धाः । यदुक्तम्-'सरघा' मधुमक्षिका । वर्वणा मक्षिका नीली पुत्तिका च पतङ्गिका ॥ वनमक्षिका तु दंशो दंशी . तजातिरल्पिका । तैलाटी वरटी गन्धोली' इति हैम्याम् । भृका भ्रमराः, पतङ्गाः शलभाः 'टील' इति लोके प्रसिद्धाः, कर्णकीटाः शतपद्यः खर्जूरकाः, ऊर्णनाभाः जाल. कारकाः 'कालियावडा' इति प्रसिद्धाः, ते प्रमुखा आदिमा येषु तादृशाश्चतुरिन्द्रियाः पुनर्मया हता व्यापादिताः ॥
महाव्रतानीव मुनीश्वराणां पञ्चेन्द्रियाणीह भवन्ति येषाम् । पापर्धिकेनेव महीचरास्ते संप्रापिताः प्रेतपतेनिकेतम् ॥ १३५ ॥ इह जगति संसारे वा येषां जन्तूनां पञ्च स्पर्शनरसनघ्राणचक्षुःश्रवणलक्षणानि शरीरजिहानासिकानयनकर्णरूपाणि पञ्चसंख्याकानीन्द्रियाणि भवन्ति । कानीव। महाव्रतानीव । यथा मुनीश्वराणां साधुसिन्धुराणां महान्ति कातरैरल्पसत्त्वैः सत्त्वैः मेरुवदुद्धर्तुमशक्यानि सर्वप्राणातिपातविरमण-सर्वमृषावादविरमण-सर्वादत्तादानविरमण-सर्वमैथु. नविरमण-सर्वपरिग्रहविरमणलक्षणानि व्रतानि नियमविशेषाः पञ्च भवन्ति । ते च पश्चेन्द्रियात्रिविधाः सन्ति । एके स्थलचराः, एके जलचराः, तृतीयाः खेचराः। तानेव प्रतिपादयति–महीचरा गोमहिषाजमृगशशशम्बरादिकाः स्थलचराः पञ्चेन्द्रिया जीवा मया भवान्तरे प्रेतपतेर्यमस्य निकेतं मन्दिरं संप्रापिता गमिताः । केनेव । पापर्धिकेनेव । यथा आखेटिकेन लुब्धकेन मृगाद्याः पञ्चेन्द्रियाः सत्त्वाः कृतान्तनिकेतनं नीयन्ते ॥
जीवान्तिकेनेव वियद्विहारा आलेख्यशेषत्वमवापितास्ते । कैवर्तकेनेव पयश्चरास्ते कथासु शेषत्वमवापिताश्च ॥ १३६ ॥
जीवान्तिकः शाकुनिको विहंगमघातुकः तेनेव वियति आकाशे विहारो विहरणं गतिर्येषां ते खचराः । कलविङ्ककुकूटशुकसारिकाकाककपिजलवाषखञ्जनशिखण्डिकपो.