________________
८
काव्यमाला। तत्त्वेषु कृपां दधानः । अजिनाज्ञापूर्वकदयामयो धर्म इत्यर्थः । क इव । सुधांशुरिव । यथा चन्द्रो मध्ये निजमण्डलान्तराले सुधाममृतं धत्ते। यो धर्मः अतिभीमे अतिशयेन भीतिकारिणि भववारिधौ संसारसमुद्रे मजज्जनस्य बुडतो, लोकस्य करावलम्बो हस्तावलम्बनमिवास्ति । हस्ते गृहीत्वा कर्षतीत्यर्थः । यथा कश्चिदगाधजलनिधिमजन्तं कंचिजन्तुं हस्ताभ्यां गाढमादाय बहिः कर्षति तद्वदास्ते ॥ इत्यर्हत्सिद्धसाधुधर्माणां चतुर्णा शरणम् ॥
ज्ञाने ममाष्टौ समयादिकातीचाराः प्रमादा इव शुद्धधर्मे । . . शङ्कादिका अष्ट च दर्शनेऽतीचारा मदा देहभृतीव जाताः॥ १२८॥ कर्माणि जन्ताविव ये ममातीचाराः पुनर्मातृगताश्चरित्रे । मिथ्यासतां ते बहुगवाचो व्याहारवन्मे निखिला इदानीम् ॥ १२९॥ ये ममाष्टौ अष्टसंख्याकाः ज्ञाने ज्ञानाचारे अतीचाराः संजाताः । किंभूताः । समयः काल: आदौ येषां कालविनयबहुमानोपधानहीननिह्नवव्यञ्जनार्थतदुभयहीना एतेऽष्ट ज्ञाना. वीचाराः।के इव। प्रमादा इव । यथा शुद्धे जिनभाषिते धर्मे मद्य-विषय-क्रोध-मान-माया-लोभ-निद्रा-विकथानामानोऽष्टप्रमादाः स्युर्धर्मविषयेऽमी प्रमादा भविनां भवेयुः। च पुनर्ये मम दर्शने सम्यक्त्वे दर्शनाचारे शङ्का-आकाङ्क्षा-विचिकित्सा-मूढदृष्टता-अनुपम बृंहणा-अस्थिरीकरण-असाधर्मिकवात्सल्य-अप्रभावना इत्यभिधाना अष्टौ अष्टप्रमाणा अतीचाराः संपन्नाः । के इव । यथा जने जाति-कुल-बल-ज्ञान-ऐश्वर्य-रूप-तपो-लब्धि. रूपा अष्टौ मदा भवन्ति । पुनर्ये चरित्रे चारित्राचारे अनिर्यासमिति-अभाषासमितिअनेषणासमिति-अनादाननिक्षेपासमिति-अपारष्टापनिकासमिति-अमानागुप्ति-अवचनगुप्ति-अकायगुप्तिः इति संज्ञा मातृगता अष्ट प्रवचनमातृसंबन्धिनोऽतीचारा जाताः । कानीव । कर्माणीव । यथा जन्तौ प्राणिनिविषये ज्ञानावरणीय-दर्शनावरणीय-मोहनीय-वेदनीय-अन्तराय-नाम-गोत्र-आयुः इत्यष्टौ कर्माणि जायन्ते । सांसारिके जीवे इति शेषः । ते निखिलाः सर्वेऽपि चतुर्विंशतिरतीचाराः इदानीमस्मिन्नायुरन्तसमये मम ते ममातीचारा मिथ्या मृषा आसतां भवन्तु । किंवत् । व्याहारवत् । यथा बहुगर्थवाचो वाचालस्य । 'स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्घवाक्' इति हैम्याम् । व्याहारा वासि मिथ्या जायन्ते । 'व्याहारो भाषितं वचः' इत्यपि हैम्याम् ॥ युग्मम् ॥
तपःसु ये द्वादशभेदभिन्नेष्वहर्मणीनामिव मण्डलेषु । वीर्येऽभवन्येऽत्र भवे ममातीचारप्रचाराश्च मृषासतां मे ॥ १३० ॥ द्वादशभिर्भेदैः प्रकारैः भिन्नेषु पृथक्पृथग्भूतेषु । अनशनम् , ऊनोदरिका, वृत्तिसंक्षेपः, सत्यागः, कायक्लेशः, सलीनता, इति षड्डिधं बाह्यतपः । तथा प्रायश्चित्तम् , विनयः, धैयावृत्त्यम् , खाध्यायः, ध्यानम् , कायोत्सर्गश्च इति षड्डिधं बाह्यतपः । संभूय द्वादशप्रकारेषु तपःसु तपआचारेषु समये अतीचाराणां प्रचारा विस्तारा लगनानि वा अभवन्