________________
१६ सर्गः] हीरसौभाग्यम् ।
२१ केसरी मृगेन्द्रः लक्ष्मी शोभां कलयति भगवच्चरणे ध्वजे वा कृत्यैव न तु मूर्तिमान् । अतएवोत्प्रेक्षणम् । उत्प्रेक्ष्यते-द्वयनिशमहोरात्रं सेवन्ते इत्येवंशील: सेवी तस्य भावः सेविता तया सेवनशीलत्वेन यः स्नेहः प्रेमातिरेकः तेन कारणेन खयमात्मनापि तं भगवन्तमनु पश्चात्पृष्ठे वा यियासुर्गन्तुमिच्छुः किमु । इतो भूमिसकाशादम्बरमाकाश. मुपगतं प्राप्तं यच्चैत्यस्य प्रासादस्य शृङ्गं शिखरं तस्याध्वना मार्गेण कृत्वा प्रचलितः किमु प्रस्थित इव । इति गर्मितोत्प्रेक्षा। किं कृत्वा। खमात्मानमाल्लाञ्छनपश्चाननं भुवि पृथि. व्यामिवौज्झ्य मुक्त्वा च पुनः खयमात्मना निर्वृतावनन्तसुखस्थाने मोक्षे गतं यात्वा च निरवधिसंतिष्ठमानं सिंहध्वजं श्रीमन्महावीरदेवमवेत्य ज्ञात्वा ॥ इति पताकापश्चाननः ॥
मृगाङ्ककरसंगमक्षरदमन्दपाथःप्लवै.
र्यदच्चशिखरात्तमीमणिमणीगणैर्निर्मितात् । रजोभिरवंगुण्ठितं प्रबलगन्धवाहव्रजै
र्वपुः पवितुमात्मनो जिनगृहं निशि स्वाति किम् ॥ ७९ ॥ तमीमणिमणीनां चन्द्रकान्तनाम्नां रत्नानाम् । 'निशारत्नकरौ चन्द्रः' इति, तथा 'चन्द्रकान्तश्चन्द्रमणिः' इति द्वयमपि हैम्याम् । गणैर्निवहैर्निर्मितानिष्पादितात् घटितात् प्रासादस्य उच्चाद्गगनसङ्गिनः शिखरात् मृगाङ्गस्य चन्द्रमसः कराः किरणास्तेषां संगमेन संपर्केण क्षरन्तो निःसरन्तो ये अमन्दा अविरलाः पाथसां पानीयानां प्लवाः पूराः। प्रवाहा इत्यर्थः । तैः कृत्वा । उत्प्रेक्ष्यते-जिनगृहं भगवत्प्रासादः निशि नाति किं स्नानं करोतीव । किंभूतम् । प्रबलै: प्रचण्डैर्गन्धवाहव्रजैर्महावातैः कर्तृभिः रजोभिरुड्डीनधूलीभिरवगुण्ठितं
धूसरितं मलिनीकृतमात्मनः खस्य प्रासादसंबन्धिनो वपुः शरीरं पवितुं पवित्रीकर्तुम् । - निर्मलां कर्तुमित्यर्थः ॥
स्फुटस्फटिककल्पिता वचन जाह्नवीवावनी ... कचिन्मरकताङ्किता स्थिरजला यमीवाजनि ।
कृतारुणमणीगणैः किमुत कुड्डमैरर्चिता
क्वचिद्विकचचम्पकैः परिचितेव चन्द्राञ्चिता ॥ ८ ॥ वचन कुत्रापि प्रदेशे अवनी प्रासादमे दिनी स्फुटं प्रकटं यथा स्यात्तथा स्फटिकैः श्वेतरत्नैः कल्पिता रचिता अजनि । उत्प्रेक्ष्यते-स्थिरं कथंचिदैवयोगादुग्रगमना स्थानाभावाद्वा अप्रवहमानं जलं सलिलं यस्यास्तादृशी जाहवी गङ्गेव । पुनः क्वचित्प्रदेशे मरकतैः अश्मगर्भरत्नैनीलमणीभिरङ्किता केलिता भूरजनि संजाता । उत्प्रेक्ष्यते-स्थिर. जला केनचिद्देवेन दानवेनाकुतूहलात्कृतमप्रचलत्पयो यस्यास्तादृशी यमी यमुनेव । क्वचिकुत्रचित्स्थाने अरुणमणीनां पद्मरागापराभिधानां रक्तरनानां गणैः पुजैः कृता निर्मिता भूमिरजनि । उत्प्रेक्ष्यते-कुङ्कुमैः केसरैरर्चिता पूजितेव । पुनः क्वचित् क्वापि स्थानके