SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ७२२ काव्यमाला। इह भूमिभुवने जगतां विश्वजनानां यो बोधः प्रतिबोधनं सुप्तोत्थापनं प्रतिबोधदानं जागरणं सत्पथस्थापनं वा तस्य कर्तृत्वं तस्य शक्तिः सामर्थ्य तस्या व्यक्तिः प्रकटता । अथ वा शत्या कृत्वा व्यत्तया स्फुटतया यः प्रेमातिरेकः नेहातिशयस्तस्मादिव ॥ इति कुक्कुटमिथुनालाप: ॥ ऊचे हंसीति हंसं किमु तव नृपते तिरभ्येति नान्त र्हन्ता ते यन्मृगाक्षीललितगतिपरिस्पर्धिभावादिवासौ । सोऽपि स्मित्वा शशंस श्रुतसुरसुदृशो विश्वकर्तुश्च जाने यानत्वान्मां न कश्चिद्रतिपतिवचनादीश्वरः स्यान्निहन्तुम् ॥२३०॥ हंसी मराली हंसं सितच्छदमित्यूचे भाषितवती । इति किम् । हे हस प्रियतम मानसवासिन् , तव भवतोऽन्तर्हृदयमध्ये नृपतेः सकाशात् भीतिर्भयमपि नाभ्येति नोदेति । यत्कारणात् असौ साहिस्तव हन्ता प्रमापयितास्ते । उत्प्रेक्ष्यते-मृगाक्षीणां खसारङ्गनयनानां स्त्रीणां लीलाललिताभिर्मन्थरभावमञ्जुलाभिगतिभिर्गमनैः सह परिस्पर्धिभावात्संघर्षित्वात् इव । ततः स हंसः स्मित्वा किमपि हसित्वा स्वसहचरी चक्राङ्गीं प्रति शशंस अवदत् । हे वारले, व्रतिपतेः सूरीन्द्रस्य वचनाद्वाक्यान्मा प्रति कश्चि. निहन्तुं घातयितुं न ईश्वरः स्यात् न समर्थो भवेत् । उत्प्रेक्ष्यते-श्रुतसुरसुदृशः सरखत्याश्च पुनर्विश्वकर्तुर्ब्रह्मणोऽपि यानत्वाद्वाहनभावादिव । अत्र जाने इवार्थे । इति हंसमिथुनालापः ।। रथाङ्गी रथाङ्गं जगादेति दूरात्प्रयाहि प्रियास्माविषत्कालरात्रेः । यतो राजविद्वेषितोदीतकोपातिरेकादसौ त्वां हनिष्यत्यवश्यम् ॥२३१॥ रथाङ्गी चक्रवाकी रथाङ्ग स्वसहचारिणं कोकमिति जगाद कथितवती । इति किम् । हे द्वन्द्वचर प्राणनाथ, द्विषतां वैरिणां कालरात्रैः कल्पान्तकालान्त्यनिशासदृशात् । यस्यां निशायां सुरासुरनरादयः सर्वेऽपि क्षयं यास्यन्ति न कोऽपि चराचरेषु स्थाता इति शैवमते । जैनमते तु निखिला भरतभूर्मनुष्यरिक्ता भाविनी षष्ठारके सर्वेऽपि मनुघ्यचतुष्पदपक्षिणस्तु विलवासिनः इति वहिर्भुवोऽनुसारिण्यपि कालरात्रिरेवेति । ततो बहुद्विपदचतुष्पदपक्षिक्षयंकरादस्मान्नृपतेस्त्वं दूरात् दूरं विप्रकृष्टभूभागे प्रयाहि । खप्रा. धारणायेत्यध्याहारः । गच्छ । यतः कारणात् राज्ञा स्वयं राजत्वात् स्वेन चन्द्रेण च सह या विद्वेषिता वैरिभावस्तस्याः सकाशादुदीतः प्रादुर्भूतो यः कोपातिरेकः क्रोधातिशयस्तस्मादिव त्वां राजविरोधिनं भवन्तं अवश्यं निश्चितं हनिष्यति ॥ प्राहेत्यसौ मां स नृपः कृपावान्न हन्ति जाने निजयौवतस्य । रतोत्सवोच्छ्रासितकञ्चुकेषु कुचेषु संचारितचित्तवृत्तिः ॥ २३२ ॥ असौ चक्रवाकः खां प्रेयसी प्रति निरातङ्कः सन् प्राह बभाण । इति किम् । हे
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy