________________
१४ सर्गः)
हीरसौभाग्यम् ।
७१९
इत्यनेकार्थः । क इव । सुदृाष्टेरिव । यथा सम्यग्दर्शवान् श्राद्धः पुण्डरीकं शैलं शत्रुजयं पर्वतं प्रीया पिबति गच्छन्नागच्छन् वलितग्रीवं मुहुर्मुहुरतृप्त इव प्रेक्षते । चैत्रपूर्णिमायां पञ्चकोटीमुनिपरिवृतपुण्डरीकगणधरस्य मोक्षगमनात् ! पुण्डरीक इति नामाद्रिरप्यासीत् । तथा च हैमनाममालायाम्-'अथ व्याघ्रो द्वीपो शार्दूलचित्रको । चित्रकायः पुण्डरीकः' इत्येकार्थान्येव नामानि दृश्यन्ते । वृत्तावपि तथैव व्याख्यानात् । तथा च शत्रुजयकल्पे शत्रुजयनामसु–'विमलगिरिमुत्तनिलउसित्तुंजोसिद्धखित्तपुण्डरिउ' इति ॥ इति व्याघ्रमिथुनालापः॥
पोत्रिणी वदति काचन दयितं किं निखेलसि निषद्वर सुखितः। रुद्र एष निहनिष्यति मखवत्त्वां विचिन्तय तदायतिकुशलम् ॥२२२॥ काचन पोत्रिणी काननसूकरी दयितं वनसूकरं प्रति वदति । किं वक्ति तदेवाहहे वराह निषदर जम्बाल, सुखितः सौख्ययुक्तः सन् कथं निखेलसि मया समं खैर क्रीडां कुरुषे । यत्कारणादेष प्रत्यक्षः प्रत्यहमाखेटकागमनेन स्मृतिगोचरीकरणात्प्रत्यक्ष एव लक्ष्यते । आगतोऽकब्बरः रुद्रश्चण्डस्त्वां सुखनिखेलिनं भवन्तं निहनिष्यति नितरां घातयिष्यति मृगयाक्रीडारसावेशात्किमप्यगणयन्प्रमथयिष्यति । किंवत् । मखवत् । यथा रुद्रेण शंभुना मखो नाम दैत्यविशेषो निहतः । तत्तस्मात्कारणात् त्वमायतिकुशलमुत्तरकाले दीर्घदर्शितामाश्रित्याने आत्मनः कुशलं चिरजीवितां निर्विघ्नतां विचिन्तय विमृश ॥
पातालावटकोटरान्तरपतत्पाथोधिनेमिर्मया
दंष्ट्रायां यदधारि धेनुकभिदो भागीभवद्वमणा । . भूभृत्त्वादिव गोत्रिणं न मिनुयाद्धात्रीधरः पोत्रिणि
श्रीमत्सूरिगिरा शुभंयुरिव तत्स्वैरं चरेत्याह सः ॥ २२३ ॥ स पोत्री पोत्रिणीमित्याह ब्रूते स्म । इति किम् । हे पोत्रिणि वराहि, तत्कारणात् शुभंयुः शुभसंयुक्ता कल्याणवती त्वं खैरं स्वेच्छया चर संचर। इतस्ततो याहि कं. दान्मुस्तांश्च खाद भक्षय । यद्यस्मात्कारणात् हे पोत्रिणि सूकरि, श्रीमत्सूरिगिरा श्रीहीरविजयसूरिवाचा धात्रीधरोऽकब्बरो मां न मिनुयान घातयेत् । उत्प्रेक्ष्यते-भूभृत्त्वात् धरणीधारकत्वात् गोत्रिणं खजनमिव । यतो महात्मा सर्वथा खशक्त्या स्वजनं रक्षतीति रीतिः । अथ भूभृत्वमेव दर्शयति-यत्कारणात् पातालमधोलोकः स एवावट: कूपः तस्य कोटरोऽधोभागवर्ती महागतस्तस्यान्तरे मध्ये पतन्ती यान्ती पाथोधिनेमिरासमुद्रान्तक्षितिर्धेनुकभिदो विष्णोर्भागीभवत् अंशरूपेण जायमानं वर्म शरीरं यस्य तादृशेन मया महीवराहरूपेण दंष्ट्रायां दाढामध्ये अधारि । श्रूयते च शास्त्रे -पुरा पातालं प्रविशन्ती क्षितिर्विष्णुना वराहरूपेण खदंष्ट्रायां धृता इति ॥ इति वराहमिथुनालापः ॥