________________
१ सर्गः ]
हीरसौभाग्यम् ।
तीर्थानि तीर्थाधिपपावितानि परस्सहस्राण्यपराण्यपीह ।
स्फूर्ति परां बिभ्रति पूर्वदेशे जिनेशकल्याणकशालिनीव ॥ ४६ ॥
.
• अपि पुन:, इह देशे लाडणचारूपप्रमुखानि अन्यान्यपराणि परस्सहस्राणि सहस्रात्पराणि सहस्रशः अनेकसहस्रसंख्यानि तीर्थानि पुण्यस्थानानि परां प्रकृष्टां स्फूर्ति विभ्रति कलयन्ति । किं० | तीर्थाधिपैर्जिनेन्द्रैरर्थात् जिनप्रतिमाभिः पावितानि पावनीकृतानि । पवित्रितानीत्यर्थः । कस्मिन्निव । पूर्वदेश इव । यथा पूर्वदेशे सहस्रसंख्याकानि तीर्थानि स्फुरन्ति । किंभूते पूर्वदेशे । जिनेशास्तीर्थकरास्तेषां कल्याणकानि व्यवनजन्मदीक्षाज्ञानमोक्षगमनस्थानानि तैः शालन्ते शोभन्ते इत्येवंशीलस्तस्मिन् ॥ इति पुण्यस्थानानि ॥
अथ क्रीerस्थानकानि.
१७
नवोदयं हीरकुमारचन्द्रं निरीक्षितुं कौतुकिनीसमेता |
स्वयं स्वयंभूतनया किमेषा सरस्वती यत्र विभाति सिन्धुः ॥ ४७ ॥ यत्र देशे सरस्वतीनामा सिन्धुर्नदी विभाति शोभते । उत्प्रेक्ष्यते – नवो नूतनो भा विनि भूतोपचारादुदयो यस्य तं तथोक्तम् । हीरनामा कुमारेषु कुमाराणां वा मध्ये चन्द्र इव दीप्यमानत्वात् विविधनादहासवाग्विलासविश्राणनादिभिराह्लादकत्वाद्वा कुमारचन्द्रस्तं निरीक्षितुं द्रष्टुं कौतुकं विद्यते यस्याः सा कौतुकिनी कुतूहलाकलिता । एषा किं स्वयंभुवो धातुस्तनया पुत्री भारती स्वयमात्मना नदीरूपेणेत्यर्थः । ' ब्रह्मपुत्री सरस्वती नदी' इति हैमीवचनात् । समेता समांगतेव । अन्यापि वशा कौतुकान्नवोदयं चन्द्रं प्रेक्षितुं समेति ॥
कपोलपालीमृगनाभिपत्रलताङ्कितैश्च द्विजचन्द्रिकायैः ।
क्रीडन्मृगाक्षी वदनैर्बभौ या सहस्रचन्द्रेव विरञ्चिपुत्री ॥ ४८ ॥
या विरश्चिपुत्री सरस्वती सरित् क्रीडन्त्यो जलविलासं सृजन्त्यो या मृगाक्ष्यः सारङ्गनयनास्तरुण्यस्तासां वंदनैर्मुखैः सहस्रचन्द्रेव दशशतमृगाङ्केव बभौ भाति स्म । किंभूतैर्वदनैः । कपोलपालीषु गण्डस्थलेषु । पालीशब्दो दीर्घोऽप्यस्ति । ' कपोलपाली जनितानुबिम्बयोः' इति नैषधे । या मृगनाभेः कस्तूरिकायाः पत्रलता: पत्रवल्लयः ताभिरङ्कितैः कलितैः । पुनः किंभूतैः । द्विजानां दन्तानां चन्द्रिका ज्योत्स्ना । कान्तिरित्यर्थः । ता अ क्रोडे येषां तैः । 'दशनचन्द्रिकया व्यवभासितम्' इति रघुवंशे ॥
यूनो रिरंसोपगतान्सकान्तान्हंसखनैः स्वागतमुच्चरन्ती । तरङ्गहस्तस्थितपङ्कजैर्या विश्राणयामास किमर्धमर्ध्यान् ॥ ४९ ॥
या सरस्वती नदी यूनस्तरुणान् । तरङ्गाः स्वकल्लोला एव हस्तास्तेषु स्थितैः पङ्कजैः कमलैः कृत्वा । किम् । उत्प्रेक्ष्यते - अर्धे पूजाविधिम् । 'अर्घः पूजाविधौ मूल्ये द्रव्ये' इत्यनेकार्थः । विश्राणयामास । 'दत्ते ददाति विश्राणयति प्रयच्छति च' इति क्रियाकलापे । प्र
1
३