SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। हृदो मनसोऽभीप्सितं वाञ्छितं भवेत् तद्वस्तु मामनुगृह्य ममोपरि अनुहं कृत्वा गृ. यता स्वीक्रियताम् ॥ खचेतसो गोचरयन्नपि क्षमाक्षपापतिनिःस्पृहतां मुनीशितुः । इवान्यपुष्टः सहकारकोरकैः प्रवर्तितो भक्तिभरैरदोऽवदत् ॥ १६५ ॥ क्षमाक्षपापतिः अवनीरजनीनायकः अकब्बरसाहिर्मुनीशितुः सूरेनिःस्पृहता निरीहभावं खचेतसो निजहृदयस्य गोचरयन् गोचरीकुर्वन् । मनसि जानन्नपीत्यर्थः । मतभैरैरतिशयैः प्रवर्तितः प्रेरितः सन्नदो गजाश्वादि गृह्यतामिति अवदद्वभाषे। क इव । अन्यपुष्ट इव । यथा कोकिल: सहकारकोरकैः आम्रतरोः कलिकाभिः मञ्जमञ्जरीव्रजा. खादैः प्रवर्तितः शब्दायते मधुरध्वनि विधत्ते । 'प्रेरणं प्रवर्तन मिति आशीःप्रेरणयोः' इत्यर्थः सारस्वतव्याकरणे ॥ इति सूरीणां गजाश्वादिप्रदाने साहिविज्ञप्तिः ॥ निशम्य सूरिनृपतेरिमां गिरं न किंचिदेभिर्मम कृत्यमित्यवक् । . मदोद्धता दुनृपवद्गजा अमी वशास्पृशः प्रौढकरप्रवृत्तयः॥ १६६॥ नृपतेरकव्बरस्य इमां पूर्वोक्तां गिरं वाणीं निशम्याकर्ण्य सूरिर्मुनीन्द्र इत्यमुना प्रकारेणावक् वदति स्म । इति किम् । हे साहे, एभिः श्रीमत्प्रदीयमानकरितुरगादिभिः मम किंचित्किमपि कृत्यं कार्य नास्ते। यत्कारणादमी गजा दुनृपबद्दष्टभूपतय इव। मानदाहंकारेण क्षीबतया वा मदेन मद्यपानेन च राज्यमान्यताकृते हस्तिपालका मदिरापानं कारयित्वोन्मदोकुर्वन्तीति स्थितिः। तत्त्वतस्तु मदेन दानप्रवाहेण उद्धता उत्कटाः सचिवादीनामप्यकथितकारिणो दुर्नराधिपाः । करिणस्तु महामात्राणामवशाः सर्वेऽपि कृत्याकृत्यविचारणान्धबधिराश्च । वशाः कारेण्यः । 'इभः .करेणुर्गजोऽस्य स्त्री धेनुका वशापि च' इति हैम्याम् । अथ च वशा: त्रियः अर्थात्परदारास्ताः स्पृशन्ति स्पर्शा. ख्यकामगुणैर्वशीकृताः सन्तः आश्लिष्यन्तीति वशास्पृशः। तथा प्रौढा अतिशायिनः प्रबलाः करा राजदेयांशाः शुण्डादण्डास्तेषां प्रवृत्तिः प्रवर्तनं येषु । पक्षे प्रौढाः पर्वत प्रायाः अथ वा प्रौढोऽतिलम्बः करः शुण्डादण्डः । तथा प्रौढा अतिशायिनी प्रकर्षणोढा तादृशी प्रवृत्तिर्दानवारिधारा येषाम् । 'मदो दानं प्रवृत्तिव' इति हैम्याम् । कलियुगदुः नृपतुल्यत्वमर्थात् ॥ अतिप्रमाणा नृप जिह्मगामिनोऽप्यमर्षणाः सुप्त पृतश्च सप्तयः । रथाश्च खिड्गा इव कामचारिणः खवाहिनीबन्यविधायिनः पुनः १६७ हे नृप, च पुनरमी सप्तयस्तुरङ्गा अतिप्रमाणा अतिक्रान्तं भावप्रधाननिर्देशात्प्रामाण्य मादेयता यैस्ते सर्वत्राप्यप्रमाणा न क्वचिदपि मान्या वर्तन्ते। तत्त्वतस्तु अतिक्रान्तं प्रमाणं पुरुषमानं यैरत्युञ्चत्वात् । यदुक्तं नैषधे-'जवेऽपि मानेऽपि च पौरुषाधिकम्' इति पुनः जिमं वक्र गच्छन्तीति। यदुकम्-'कुटिलगतिः कुटिलात्मा कुटिलशीलसंपन्नः' इति मौलार्थे । कुटिलं चक्रमणा । यदुक्तम्-'जउकिम्मेकम्महवसइ खलसंपयपामेति । त
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy