________________
१३ सर्गः]
हीरसौभाग्यम् ।
सदनं मिलनसंदेशगृहं मिथः प्रीतिभाजामेकान्ते संगमनगेहमिव । आशिषं मालशंसनं ददत विश्राणयत । यथा येन प्रकारेण अनया श्रीमदाशिषा अमी त्रयोऽपि साहिजाता विवर्धन्ते वृद्धि प्राप्नुवन्ति । क इव । शिखरिण इव । यथा सारिण्या कुल्यया दुमा विवर्धन्ते ॥
इति नृपमणिवाणी कर्णपेयां प्रणीय ___ व्यतरदयममीभ्यो धर्मलाभाशिषं सः । अपि निजकरक्लुप्ताशेषराज्या इवैते
ऽसमप्रमदसुधाब्धौ राजहंसीबभूवुः ॥ २२६ ॥ - अयं मुनीन्द्रः सूरिरमीभ्यः पातिसाहिपुत्रेभ्यः धर्मलाभ इति नाम्नीमाशिषं व्यतरद्ददाति स्म । किं कृत्वा । इति पूर्वोकप्रकारेण नृपमणेः समस्तराजसुररत्नस्य साहेर्वाणी कर्णयोः सादरं श्रोतुं योग्यां प्रणीय कृत्वा । श्रुत्वेत्यर्थः । अपि पुनरेते साहिपुत्रा अपि निजकरे खपाणौ कुप्तं कृतमागतमशेष समग्रं राज्यं मेदिनीमण्डलाधिपत्यं यस्तादृशा इव । असमोऽसाधारणः यः प्रमोदः । अत्र प्रमदशब्दगतो रेलो न यतिभङ्गाय संभवेत्। तथा 'बहुलभ्रामरमेचकतामसे' इत्यस्मिन्काव्ये ह्रियादयोऽपि सन्तीति काव्यकल्पलता. वृत्तरत्नाकरवृत्त्यादौ कथनात् स एव सुधाब्धिः क्षीरसमुद्रः तत्र राजहंसीभूताः सितच्छदा जाताः ॥ इति साहिजातानामाशीर्वाददानम् ॥
यं प्रासूत शिवाहसाधुमघवा सौभाग्यदेवी पुनः ___ श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामादिमम् । तबाहीक्रमसेविदेवविमलेनानन्दतो निर्मिते
• वृत्ते हीरगुरोस्त्रयोदशमितः सर्गो बभूवानसौ ॥ २२७ ॥ इति हीरसूरिचरित्रहोरसौभाग्यनान्नि महाकाव्ये असौ त्रयोदश इति संख्यया मितः प्रमाणीकृतः सर्गो बभूवान् संजात इति ॥
इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभा. ग्यनाममहाकाव्यवृत्तौ शिवपुरीपादावधारणसुरवाणमहोत्सवकरणराणपुरयात्राआयुआपुरेशप्रजाप्रभावनाकरणमेडजागमननागपुरविक्रमपुरीयसंघमहोत्सवकरणफलवर्धियाकरणोपाध्यायविमलहर्षपुरप्रेषणसाहिमिलनतदुदन्ताकर्णनफतेपुरागमनसंघसंमुखागमनशेषणे. ऽध्यनन्तसाहिमिलनकुशलप्रश्नालापदूतोक्कसूरिगुणाकर्णनतीर्थकथनसाहिजाताशीर्वाद प्रदानादिवर्णनो नाम त्रयोदशः सर्गः ।।