________________
१३ सर्गः]
हीरसौभाग्यम् ।
मुमुक्षुशकः श्रमणेन्द्रः अवनीं भूमी पाति पालयति रक्षतीत्यवनीपः अकबरसा. हिस्तस्य प्रवेशनं सिंहद्वारं तस्य क्षोणि भुवं ब्रह्मप्रदेशमलंचकार भूषयति स्म । क इव । मनोरथ इव । यथा मनोरथः कार्यकरणाभिलाषः सिद्धिं कार्यनिष्पत्तिमलंकुरुते । किंभूतः सूरिः । सन् सम्यक् मार्गः असन् विरुद्धः पन्थाः तयोः सदसतोः शुद्धाशुद्धयोः मार्गयोः समीक्षा दर्शनं सम्यग्ज्ञानं तत्र हल्लेख औत्सुक्यं संजातमेषामिति हल्लेखिता। जातार्थे इतच्प्रत्ययः । उत्कण्ठिता ये अशेषाः समस्ता जना लोकास्तेषामज्ञानां तमोअन्धकारं तत्र प्रदीप इव प्रदीपो मन्दिरमणिः सर्वेषां पदार्थानां प्रकाशकारित्वात् संसारासन्मार्गदर्शकः खर्गापवर्गोत्तममार्गप्रकाशकश्च । ततो दीपोपमः ॥
समस्ति शेखोऽबलफैजनामा तुरुष्कशास्त्राम्बुधिपारदृश्वा । हमाउंसूनोः क्षितिशीतभानोदृष्टिस्तृतीयेव परिस्फुरन्ती ॥ १२० ॥ अबलफैज इति नामाभिधानं यस्य तादृशो यवनानां गुरुत्वेन माननीयः शेषः समस्ति विद्यते। किंभूतः । तुरुष्काणां यवनानां शास्त्राण्यागमाः सफाराकुरानप्रमु. खाणि तान्येवाम्बुधिर्बहुत्वात्समुद्रस्तस्य पारं दृष्टवान् इति पारदृश्वा यवनानेकशास्त्राध्येता पारगामी । उत्प्रेक्ष्यते-क्षितिशीतभानोर्वसुधासुधाकिरणस्य राज्ञः हमाउंसूनोरकब्बरपातिसाहेः परिस्फुरन्ती सामस्त्ये देदीप्यमाना तृतीया वदमवर्तिनीभ्यां द्वाभ्या हरभ्यामधिका दृष्टिर्नेत्रमिव । यतोऽसौ साहेः सर्वशास्त्ररहस्यकथयितान्याप्राण्यायो. पादृष्टा वातस्तृतीया दृक् ॥ . सहस्ररश्मेरिव सोमजन्मा समेत्य शेखस्य सवेशदेशे । तत्रेयिवांसं वतिनामधीशं तं स्थानसिंहो वदति स्म तस्मै ॥ १२१ ॥ स्थानसिंहाभिधानः श्राद्धः साहेः सामन्तसमानस्तत्र राजद्वारे इयिवांस समागतं तं हीरविजयनामानं व्रतिनां साधूनामधीशं सूरि तस्मै शेषाय वदति स्म निवेदयामास । किं कृत्वा । शेखस्याबलफैजस्य सवेशदेशे समीपभूभागे स्थाने समेत्यागत्य । क इव । सोमजन्मेव। यथा सोमाञ्चन्द्राजन्मोद्भवो यस्य स चन्द्राङ्गजो बुधः सहस्ररश्मः सूर्यस्य संनिधौ मैत्र्याल्लोके च भानोश्छत्रधरो बुध इत्युच्यते । तच्चाधारवशाद्वासमेति ॥ स श्रेणिकायाभयवन्मृगारिध्वनस्य शेखोऽपि सभां समेत्य । अकब्बरोर्वीरमणस्य सिंहद्वारे विभोरागमनं जगाद ॥ १२२ ॥ स स्थानसिंहः निवेदितावधारितगुर्वागमनः शेखोऽपि अकब्बरनामा य उवीरमण्मे भूमिभर्ता तस्य सिंहद्वारे विभोः सूरेरागमनं जगाद भाषते स्म। किं कृत्वा । समां साहेरास्थानं समेत्य । किंवत् । अभयवत् । यथा अभयकुमारो मृगारिध्वजस्य महावीरदेवस्य राजद्वारे राजगृहनगरबहिरिस्थगुणशिलाचैत्यस्थाने श्रेणिकनृपाय निगदति स॥