________________
काव्यमाला।
आक्रम्य दैत्यारिपदं स्थितस्याम्भोदस्य माहात्म्यमुदीर्यते किम् । कृतान्ततातो दशदिक्प्रसारिकरोऽपि येनाधरितो महखी ॥ १०४ ॥
दैत्यानां दानवानामरेनिषूदनस्यापि पदं स्थानं राज्यं वाचरणं च विष्णुपदमाक्रम्य स्थितस्याभिव्याप्य वसतः अम्भोदस्य मेघस्य माहात्म्यं महिमा किं उदीर्यते वर्ण्यते कथ्यते। येन कारणेन अम्भोदेन महखी प्रतापवान् तथा दशसु दिक्षु व्याप्नुवन्तीत्येवंशीलाः करा राजदेयांशाः किरणाश्च यस्य तादृक्षः । तथा कृतान्तस्य सकलसुरासुरनरलोकसं.. हर्तुरपि तातः पिता अधरितस्तिरस्कृतः । आच्छादित इत्यर्थः । 'करः प्रत्यायशुम्भयोः । रश्मौ वर्षोपले पाणी' इत्यनेकार्थः । 'प्रत्यायो राजग्राह्यो भागः इत्यर्थः' इति तदवचूर्णिः । मेषे समुन्नते रविः कस्य खास्यं न दर्शयतीत्यधरीकरणमेव ॥ ..
प्राप्ते प्रियेऽब्देऽजनि भूजनीयं वप्पीहरावैः कृतचाटुकेव। . . प्रोद्भिन्नकन्दैः पुलकाङ्कितेवारब्धाङ्गहारेव कलापिलास्यैः ॥ १०५॥ प्रिये प्राणनाथे अब्दे मेघे प्राप्ते समागते सति भूजनी वसुधावधूः वप्पीहानां सारङ्गाणां रावैः प्रिय प्रिय इति शब्दैः कृत्वा कृतं विनिर्मितं चाट प्रियप्राय वाक्यं यया सा कृतचाटुका तादृशीवाजनि जाता । प्रोद्भिः प्रकटीभूतैः कन्दैः कन्दलै: पुलकेन रोमाञ्चेन अङ्किता कलितेवाजनि । तथा कलापिनां मयूराणां लास्यैर्नृत्यैः आरब्धः कृतः अङ्गहारोऽङ्गविक्षेपः ताण्डवविशेषो यया तादृशीवासीत् ॥ प्रेक्ष्य क्षणं कामरसोन्मदिष्णूघनानुषङ्गेण तरङ्गिताङ्गी । पुत्रीः सवन्तीः पितरो गिरीन्द्राः प्रस्थापयन्तीव पतिं पयोधिम् ॥१०॥ पितरो जनिकर्तारः ततो गिरीन्द्राः महाशैला हिमाचलाद्याः पुत्रीरङ्गजाताः पर्वतोत्पन्नत्वात् स्रवन्तीनदीः । उत्प्रेक्ष्यते-पतिं भर्तारं पयोधिं समुद्रं प्रति समुद्रस्य नदीपतित्वात्प्रस्थापयन्ति प्रेषयन्तीव । किं कृत्वा । . क्षणं क्षणमात्रं काममतिशयेन रसैः पयःपूरैः उन्मदिष्णूरुन्मत्ताः रङ्गत्तरङ्गैस्तरीतुमशक्याः तटस्थितशाखिनिषूदिनीर्वा । तथा घनानां वारिवाहानामनुषङ्गेण संगमेन तरङ्गाः कल्लोलाः संजाता अस्मिस्तादृशमङ्गं शरीरं यासां तादृशीः प्रेक्ष्य दृष्ट्वा । अन्येऽपि पितरः मुहूते कंदर्परसेन उन्मत्ता धनरुपपतिभिः समं संगमेन तरङ्गितमुपचितमङ्गं कायो यासां तादृशीः वपुत्रीः प्रेक्ष्य भर्तुः पार्श्वे प्रस्थापयन्ति ॥
खयं धरित्रीधरताभिषेकोत्सवे प्रयुक्तान्कजजन्मनेव । तदोन्नमन्नीरदमुक्तधारापयःप्रवाहानवहन्महीधाः ॥ १०७ ॥ तदा तस्मिन्वर्षाकाले उन्नमन्तो नीरभारैर्नम्रीभवन्तो भूमण्डलमम्बरतलं वार्मवर्दलकैरेकीकुर्वन्तो वा ये नीरदा घनास्तैर्मुक्ता या धारा वारिवृष्टिलेखास्तासां पयसां पानीयानां प्रवाहान् महीध्राः गिरयः शैला अवहन्धारयन्ति स्म । उत्प्रेक्ष्यते-कजजन्मना ब्रह्मणा