________________
१ सर्गः)
हीरसौभाग्यम् ।
राचार्यः । 'प्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति चम्पूकथायाम्। सोऽप्रभुरसमर्थः । तद्वत्तं वक्तुमहं कविः किं कथम् । अथ वा क्रिमिति प्रश्न वितर्के ईशे समर्थीभवामि । अपि तु नेत्यर्थः । उक्तमर्थमर्थान्तरेण द्रढयांत-यश्चन्द्रः ऋङ्गिणः शिखरिणः शैलस्य शृङ्गं शिखरं तस्य यदनं सर्वोपरितनभूमिभागः तत्र गतैः प्राप्तैः पुरुषैः । दुःखेन कष्टेन आप्यते लभ्यते इति दुरापः । सर्वथापि प्राप्तुं न शक्यः । तं विधुं चन्द्रमसं भूमिगो भूमौ स्थितः पुमान्किमिति प्रश्ने आददीत गृह्णीयात्स्वपाणिना ॥
यद्येवं तर्हि वृत्तं न कर्तव्यम् । नहि, कर्तव्यं त्ववश्यमेव । तर्हि कथं करिष्यतेऽतः करणसामर्थ्यमाह-- प्रभोः प्रभावादथ वा कथं न प्रभुर्भवामि प्रविधातुमेतत् । खःसत्प्रसादात्रिदशाचलस्य शिखामु खेलायति किं न खञ्जः ॥ ९ ॥ अथ वेति स्मरणगर्भे पक्षान्तरे वा । अत्रान्तरे मम गुरुभक्तिप्राग्भारवशाविर्भूतभाग्योदयात्स्मृतिविषयमायातम् , तदेव काव्ये प्रोच्यते ! प्रभो_रविजयसूरेः प्रभावान्माहाम्यादेतत्काव्यं प्रविधातुं निर्मातुमहं प्रभुः समर्थः कथं न भवामि । अपि तु प्रभुर्भवाम्येव । उक्तमर्थमर्थान्तरेण समर्थयति-खञ्जश्वरणविकलः पुमान् स्वः स्वर्गे सीदति तिष्ठतीति स्वःसद्देवस्तस्य प्रसादादंनुग्रहात्रिदशाचलस्य मेरोः शिखासु अग्रभागभूमःषु किं न खेलायति क्रीडति । अपि तु खेलतीत्यर्थः । यथा खो दिव्यानुभावात्सुरशिखरिशिखरे खेलति, तथाहमपि हीरसूरिमाहात्म्यादेतत्काव्यं कर्तुं समर्थीभवाम्येव । 'क्रीडति विह. रति रमते खेलति खेलायतीति खेलार्थाः' इति क्रियाकलापे ॥
इति पीठिकापद्धतिः । अथ वर्णनप्रारम्भ:- . सुपर्वभि गिभिरगिसंधैर्लीलां स्वयं विभ्रदिव त्रिलोक्याः ।
प्रेयानिव स्त्रीभिरिहास्ति जम्बूद्वीपोऽधिवेलाभिरुपास्यमानः ॥ १० ॥ . इह जगति भूमण्डलरूपमध्यमलोके पार्थिवो रजतहेमरत्नमयोऽनादृताभिधानस्य द्वी. पाधिदेवस्यावासभूत उत्तरकुरुवी. जम्बूवृक्षस्तेनोपलक्षितो द्वीपो जम्बूद्वीपोऽस्ति वर्तते । जम्बूद्वीपः किं क्रियमाणः । उपास्यमानः सेव्यमानः । काभिः । अब्धेः समुद्रस्य वे. लाभिर्जलवृद्धिभिः । कः काभिरिव । प्रेयान् . स्त्रीभिरिव । यथा अतिशयन प्रियः । मापिटभ्रातपुत्रादिसर्वस्वजनेभ्योऽपि पतिव्रतानां स्त्रीणां प्रेमाधिक्यं भर्तर्येव तेन प्रेयानिति पदोपादानम् । कान्तः स्त्रीभिनिषेव्यते । जम्बूद्वीपः किं कुर्वन् । उत्प्रेक्ष्यते-बि. भ्रदिव धारयनिव । काम् । लीलां शोभां विलासं वा । कस्याः । त्रिलोक्या जगत्रयस्य । कथम् । स्वयमात्मना । कैः । क्रीडार्थमागतैहिमवगिरिसुरसरित्यग्रहदादिनिवासिभिर्वा सुपर्वभिर्देवैः । तथा-भोगिभिर्नागकुमारैः । तथा-अङ्गिसँधैहिसाथैः । 'संघः सार्थस्तु देहिनां समूहे' । अशवाङ्गिविशेषणान्यपि । आङ्गिसंधैः । किं० । सुशोभनानि