SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] हीरसौभाग्यम् । ५८३ पुनश्चैत्यं किं कुर्वाणम् । निजस्यात्मनो मण्डपान्तः खलामण्डपमध्ये मेदपाट. मण्डलाधिपस्य भूनाविन्द्रोपमस्य कुम्भो इत्यभिधा नाम यस्य तादृशस्य राणकस्य । केषांचिदपि राजन्यानां राणो इत्यभिधा प्रोच्यते । ततः कुम्भोराणो इति प्रसिद्धस्य । राज्ञः पञ्चशतीसुवर्णकानां समर्पणेन खनाम्ना कारितान् स्तम्भान् सप्तसंख्याकान् मण्डपावाटम्भस्थूणाविशेषान्दधानं विश्राणम् । किंभूतान् स्तम्भान् । अनेकपानां करिणां स्फूर्तीनां विलसितानां भुवः स्थानानि । उत्प्रेक्ष्यते-शिवस्य शंभोगोत्रस्य शैलस्य शुभ्रश्रिया कैलाशस्य जैत्राञ्जयनशीलान् एतान्प्रत्यक्षान् समज्ञायाः कीर्तेः स्तम्भानिव । किंभूतान् । अनेका जनान् व्यापदुद्धरणव्यसननिराकरणद्रविणवितरणशरणरक्षणादिभिः पातीति रक्षतीति कृत्वा अनेकपस्तत्त्वेन स्फूर्तयः प्रसिद्धयस्तासां भुव आस्पदाः ॥ खतुङ्गिमाधःकृतरत्नसानुं विगाहमानं शिखरैर्विहायः । प्रगल्भमानं वपुषैव तेनाश्रितानिव प्रापयितुं धुलोकम् ॥ १७ ॥ चैत्यं किं कुर्वाणम् । शिखरैः स्वशृङ्गैः विहायो गगनाङ्गणं विगाहमानं संस्पृशत् कषद्वा । पुनः किंभूतम् । खतुङ्गिना स्वकीयोच्चैस्तरत्वेन अधःकृतो हीनो विहितो रत्नसानुः सुवर्णशिखरी येन । तत्रोत्प्रेक्ष्यते-आश्रितानागत्य खं सेवमानान् अर्थात् निजनायकजिनभक्तिपरायणान् जनान् तेनैव वपुषा मानुषेनैव धुलोकं खर्गभुवनं प्रापयितुं प्रगल्भमानमुद्यमं कुर्वाणमिव ॥ चेतश्चमत्कारकरीस्त्रिलोक्या लक्ष्मीः समालोक्य रसातिरेकात् । संस्तम्भिताङ्गीभिरिवासरीभिः पाञ्चालिकाभिः प्रविभासमानम् ॥ १८॥ पुनः किं कुर्वाणम् । प्रविभासमानं प्रकर्षेण दीप्यमानम् । अतिशायिशोभां दधानमित्यर्थः । काभिः। पाश्चालिकाभिः शालभञ्जीभिः । उत्प्रेक्ष्यते-त्रिलोक्या भुवनत्रितयस्य चेतसामन्तःकरणानां चमत्कारमाश्चर्यरसातिशयं करोतीति तादृशीर्लक्ष्मीरतिशायिशोभाः समालोक्य सम्यक् सर्वाङ्गीणतया निर्वर्ण्य । रसातिरेकात्केवलं दर्शनेन विस्मयाद्वैततया संस्तम्भिताङ्गीभिर्निश्चलीभूततनूलताभिरिव । अथ वा विमुक्तगमागमस्फुरणवार्तान्योन्यावलोकनाद्यशेषापरशरीरव्यापाराभिरमरीभिर्देवाङ्गनाभिरिव ॥ पाञ्चालिकाप्रौढविलासवीक्षाहणीयमानबुधवावरोधम् । अष्टापदोत्तीर्णवृषाङ्कगेहमसासहीवादिनिवासजातिम् ॥ १९ ॥ चैत्यमुत्प्रेक्ष्यते-अद्रौ पर्वते । शैलशिखरे इत्यर्थः । यो निवासो नित्यनिवसनं तमाजाता या अतिः पीडा चिन्ता शारीरिकी मानसी च तामसासहिः सोढुमशकम् । 'अहिर्महीगौरवसासहिर्यः' इति नैषधे । अष्टापदात्स्फटिकपर्वतादुत्तीर्ण भूपीठेऽभ्युपेतं वृषाङ्कस्यादिदेवस्य गेहं सिंहनिष्पद्या नाम चैत्यमिव । यद्यपि चतुर्विंशतितीर्थकृतामपि प्रासादोऽस्ति तथा मुख्यवृत्त्या ऋषभदेवस्यैव । यतो भरतचक्रिणा ऋषभदेवसमये
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy