________________
• १ सर्गः] हीरसौभाग्यम् ।
यच्चक्षुषा मातृमुखोऽप्यशेषविशेषविच्छेखरतानुषङ्गी। गुरुं सुराणामधरीकरोति भवन्तु ते श्रीगुरवः प्रसन्नाः ॥ ३ ॥ ते विश्वविख्याताः श्रिया शोभया युक्ता गुरवोऽर्थान्मयि विषये प्रसत्तिभाजः प्रसादभाजनं भवन्तु । ते के । यच्च० । येषां गुरूणां चक्षुषा दृशा प्रसन्न नयनावलोकनेन कृत्वा । 'यदृष्टिपातसामर्थ्यान्मको वाचस्पतिर्भवेत्' इति प्रक्रियाकौमुद्याम् । मातमुखो जडोऽपि अशेषाः समस्खा ये विशेषा वाङ्मयरहस्यानि विदन्ति जानन्तीति अशेषविशेषविदो विशारदास्तेषां शेखरताया उत्तंसमावस्यानुषङ्गः प्रसङ्गोऽस्यास्तीति तादृशः सन् सुराणां गुरु बृहस्पतिमधरीकरोति हीनोकरोति स्वप्रतिभाप्रागल्भ्येन पराजयते ॥
विशदहृदयात्मदर्शप्रतिविम्बितसमस्तभुवनपदार्थसार्थान्सदसद्विवेचनचातुर्याचार्यान्महा. स्मनो निजविनिर्मितत्तविशुद्धिहेतवे अनुकूलयन्कविराह
कवित्वनिष्कं कषितुं कवीनां येषां मनीषा कषपट्टिकेव । सन्तः प्रसन्ना मयि सन्तु शुद्धाशयाः प्रवाहा इव जाह्नवीयाः ॥ ४॥ ते सन्तो महात्मानो मयि विषये प्रसन्नाः प्रसादोपेताः प्रज्ञाप्रारभारावगताशेषविशेषोपनिषत्तया वृत्तशुद्धिविधानविधिना मय्यनुग्रहपरायणाः सन्तु भवन्तु । किं[विधा:] सन्तः । शुद्धो मात्सर्यरहित आशयोऽभिप्रायो मनो वा येषां ते। आशयशब्देन चित्त. मपि प्रोच्यते । यथा नैषधे-'दयासमुद्रे स तदाशयेऽतिथीचकार' इति । तद्वृत्तिः-तदाशये नलचित्ते । शुद्धाशयाः क इव । प्रवाहा इव । यथा जाहवीया जाह्नव्या मनाया इमे जाइवीयाः प्रवाहा ओघा निर्मलमध्याः स्यः । ते के सन्तः । येषां सतां मनीषा बुद्धिः कवीनां काव्यकर्तृणां कवित्वं काव्यम् । जातावेकवचनम् । तदेव निष्कं सुवर्ण कपितुं सम्यक्परीक्षितुं कषपटिकेव कषः स्वर्णपरीक्षणपाषाणविशेषस्तस्य पट्टिका शिला तद्वद्वर्तते । यथा कोपलेन स्वर्ण परीक्ष्यते तथा यत्प्रतिभाप्रागल्भ्येन काव्यमपि वि. शुद्ध विधीयते ॥
. अथ प्रस्तुताभिधेयमाह. अमन्दगन्धैरिव गन्धसारो दिशो यशोभिः सुरभीकरोति । .. · वृत्तं व्रतीन्द्रस्य तनोमि तस्य कुरान्ववायाम्बरपद्मवन्धोः ॥ ५ ॥ . अहं तस्य साहिश्रीमदकब्बरनरपतिप्रदत्तजगद्गुरु बिरुदतया जगति विख्यातिभाजो वतिनां साधनामिन्द्रस्य श्रीहीरविजयसूरीश्वरस्य वृत्तं काव्यं चरितं वा तनोमि विस्तारयामि । करोमीत्यर्थः । कथिताः करणे तनने ग्रथने चोत्पादने च ये पू. र्वम् । ते धातवः स्पृशन्ति प्रायस्तुल्यार्थतामेव ॥ इति क्रियाकलापोक्तेः । किं च वृत्त. नायकाश्चतुर्विधा वर्ण्यन्ते। धीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्च । तत्र धीरोदात्ता रामचन्द्रादयः, धीरोद्धता दुर्योधनादयः, धीरललिता नलादयः, धीरप्रशान्ता जीमूतवाहनप्रमुखाः । तेषु तेष्वपि नायकेषु श्रीहीरविजयसूरेधीरप्रशान्तत्वेन वृत्तकरणं