SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] हीरसौभाग्यम् । ६७५ जोऽशुभकर्म येन । वहुवचनं वा वाच्यम् । किं कृत्वा । आनन्दो भगवदर्शनोद्भूताहादः स एव वृन्दारकनिर्झरिणी सुरसारेद्गङ्गा तस्यां विषये निमज्ज्य स्नानं कृत्वा । क इव । जम्भद्विषतः करीव । यथा जम्भनाम्रो दानवेन्द्रस्य द्विषतः शत्रोरिन्द्रस्य करी ऐरावणः सुरनिन्धौ निमज्ज्य यथेच्छं जलक्रीडादि निर्माय स्वशरीरादपास्तं च प्राधातादिना विलग्नं रजो येन ताग्विधो गङ्गाप्रवाहाद्वहिर्निरेति । देवगजानां तु रजोलगभावात् वैरिदमनत्वाजम्भद्विषत्तुल्यो राजा । 'भूस्तम्भभिदः' इति पाठो वा । भूमेरिन्द्रस्तस्य पट्टहस्ती मन्दाकिन्यां क्रीडित्वा खवपुर्विलग्नं रजोऽपास्य बहिर्विनिःसरतीत्यर्थः॥ पिण्डीभवद्भूभृति वस्तुपालयशः किमालोक्य परं विहारम् । तस्मिन्नलीव स्मितपुण्डरीके श्रेयोरसं संस्पृहयन्विवेश ॥ ११९ ॥ ‘सूरिस्तस्मिन्विहारे विवेश प्रविष्टः । क इव । अलीव । यथा भ्रमरो विशिष्टे श्वेतसरोजे मध्ये प्रविशति । किं कुर्वन् सूरिः। संस्पृहयन् वाञ्छन् । कम् । श्रेयो मोक्षस्तस्य रसमाखादम् । 'रसः स्वादे जले वीर्ये शृङ्गारादी विषे हदे । बोले रागे देहधातौ तितादी पारदेऽपि च ॥ इत्यनेकार्थः । भृङ्गोऽपि खश्रेयःकारिणं पुष्टिविधायिनं खशरीरोपचये परमं मङ्गलमेव । मकरन्दं रसो मधु। मकरन्दोऽमरन्दश्च' इति हैम्याम् । काङ्कन् । किं कृत्वा परमन्यं विमलवसतेरपेक्षया विहारं जिनसद्म आलोक्य समीक्ष्य । उत्प्रे. क्ष्यते-भूभृति अर्बुदाचले पिण्डीभवत्पिण्डाकार संपद्यमानं वस्तुपालनानो मन्त्रिणो यशः किं मूर्तिमती कीर्तिरिव ॥ चुचुम्बेऽम्बरं यन्महामण्डन जगन्नेत्रजैवात्रिकेणात्ममूर्धा । किमु स्नातुमाकाङ्क्षता खर्वहायाः प्रवाहे विहायोमणीतापितेन ॥१२०॥ ... यस्या वस्तुपालवसतेर्महान् सर्वातिशायी यो मण्डपस्तेनात्ममूर्धा खमस्तकेन कृत्वा अम्बरमाकाशं चुचुम्बे पस्पृशे । आलिङ्गति मैत्यर्थः । किंभूतेन । जगतां जगजनानां नेत्राणामालादकरणविधौ जैवात्रिकेण चन्द्रेण । उत्प्रेक्ष्यते-विहायसो व्योनो मणी रत्नं भाखान् तेन तापितेन तप्तीकृतसङ्गेिण सता खर्वहाया गगनगङ्गायाः प्रवाहे पयःपूरे स्नातुमाप्लवितुमाकाङ्क्षता किमु वाञ्छतेव ॥ विभाव्य यत्राद्भुतशालिभञ्जीराजीस्त्रिलोकीयुवतीर्जयन्तीः । सुरैर्मरुद्यौवतरूपशिल्पी स्म कल्प्यते कारुरिवानधीतिः ॥ १२१ ॥ यत्र वस्तुपालवसतौ सुरैर्देवैर्मरुतां त्रिदशानां यौवतस्य युवतीसमूहस्य । देवाङ्गनागणस्येत्यर्थः । रूपस्य वपूरामणीयकस्य शिल्पी रचनाकारकः न विद्यते सम्यक् शिल्पकलाया अधीतिरध्ययनं यस्य सोऽनधीतिः कारः नीचजातिशिल्पी निकृष्टशिल्पी च कल्प्यते स्म विचार्यते स्म । किं कृत्वा । यत्र वस्तुपालवसतौ त्रिलोक्या भुवनत्रयस्य युवतीस्तरुणीर्जयन्तीः पराभवन्तीः अद्भुता अतिप्रकृष्टा जगदाश्चर्यकारिणीर्वा शालिभजीराजीः पाश्चालिकामालिकाः विभाग, व्यालोक्य ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy