________________
१२ सर्गः] हीरसौभाग्यम् ।
६७३ हे इति संबोधने । यदुक्तं सारखतव्याकरणे-'आभिमुख्याभिव्यक्तये हेशब्दस्य प्राक्प्रयोगः' इति । त्रिजगतां त्रयाणां भुवनानां त्रीणि च तानि जगन्ति च । त्रिजगजनानामित्यर्थः । सुरासुरनराणाम् । अथ च त्रयाणां जगतां समाहारः त्रिजगत् तेषां तस्य वा यानीहितानि कामितानि तेषां पूरणे प्रदानविधौ अमरतरो कल्पवृक्ष इति संबोधनम् । तथा हे सरोजानन हे विकसितकमलवदन । हे प्रसूनं कुसुममेव विशिखाः शरा अस्यन्ते क्षिप्यन्तेऽनेनेति विशिखासनं धनुर्यस्य स स्मरः स एव द्विरदो मदोन्मत्तहस्ती तस्य भेदे विदारणे पञ्चानन केसरिन् । त्वं जय चिरं सर्वोत्कर्षेण प्रवर्तख । तथा हे त्रिदशानां सुन्दर्यः कामिन्यः तासां विकचानि विनिद्राणि नेत्राणि नयनान्येव नीलोत्पलानि इन्दीवराणि कुवलयानि वा तैर्निपीतं सादरमवलोकितमाखादितं वा मुखं वदनमेव शीतरुक्चन्द्रमास्तस्य लवणिमा लावण्यं शोभातिशय एकमद्वितीयं न केनापि समान पीयूषं सुधारसो यस्य तत्संबोधनं पुनस्त्वं जय ॥ ____जय प्रणतपूर्वदिक्प्रणयिमौलिमालागल
· न्मरन्दकणधोरणीतपितपादपद्मद्वय । जय त्रिभुवनेन्दिराभरण नाभिभूमीधना
न्ववायगगनाङ्गणाम्बरमणे महोक्षध्वज ॥ ११४ ॥ हे प्रपतः प्रणामप्रवीभूतः पूर्व दिशः प्राचीहरितः प्रणयी पुरंदरः उपलक्षणाचतु:षष्टिरपीन्द्राः तेषां मौलयो मुकुटास्तेषां मालाः पुष्पदामानि तेभ्यो गलन्तो निःसरन्तो ये मरन्दाः कुसुमस्सास्तेषां कणानां बिन्दूनां धोरण्यः श्रेणयस्ताभिः स्वपितं कारितस्नानं प्रक्षालितं वा पादपद्मयोश्चरणारविन्दयो यं द्वन्द्वं यस्य तत्संबुद्धौ । अथ वा केवलमेक एव शक्रोऽपि वाच्यः । त्वं जय विजयख । हे त्रिभुवनस्य त्रैलोक्यस्य या इन्दिरा लक्ष्मीस्तस्या आभरण अलंकारभूत । पुनर्हे नाभिनानो भूमीधनस्य राज्ञोऽन्ववायो वंशः स एव गगनाङ्गणं व्योमाजिरं तत्राम्बरमणि: प्रकाशकत्वात्सूर्यः तत्संबुद्धौ । पुनर्हे महोक्षः ककुद्मान् ध्वजे लाञ्छने यस्य त्वं जय ॥
जय त्रिभुवनाशिवप्रशमनात्मगम्भीरिमा
पहस्तिततरङ्गिणीप्रियतमावलेप प्रभो । महोदयपयोरुहोदरविनोदपुष्पव्रता
म्बुजासन इव स्फुटीकृतविशिष्टसृष्टिक्रम ॥ ११५ ॥ हे त्रिभुवनस्य त्रिजगतः अशिवस्योपद्रवस्य अरिष्टस्य वा प्रशमन निर्णा(ना)शक । पुनहें आत्मनः खस्य गम्भीरिम्णा गाम्भीर्येण अपहस्तितो निराकृतो निर्घाटितः तरगिणी सरितां प्रियतमस्य भर्तुः समुद्रस्य अवलेपोऽहंकारो येन । 'तुलेऽवलेपं च हसे वृथैव' इति प्रतिक्रमसूत्रवृत्तौ । पुनर्हे प्रभो खामिन् , त्वं जय। हे महाननन्तज्ञानदर्शन