SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। देवविमलगणिविरचितं हीरसौभाग्यम्। स्वोपज्ञया व्याख्यया समलंकृतम् । प्रथम सर्गः। श्रेयः श्रीजयमंगलैकनिलयः संकल्पकल्पद्रुमो __ भूयाद्भरिविभूतये म भगवा-श्रीपार्श्वचिन्तामणिः । भव्यानां दशदिग्भुवां प्रणमतां मन्ये निहन्तुं तमो ..बिभ्राणा दशतां बभुः क्रमनखा यस्यार्भभास्वत्त्विषः ॥ श्रीचिन्तामणिपार्श्वमोहितकर चिन्तामणीवनृणां ... सिद्धिश्रीपरिरम्भिणं प्रणिदघे विश्वत्रयीनायकम् । सान्द्रानन्दमरन्दसुन्दरहृदम्भोजन्मलीलालसा हंसीवद्विधिना पुनः प्रवि(णि)दधे वाग्वादिनी देवताम् ॥ : खोपज्ञहीरसौभाग्यकाव्यस्याव्यासशालिनीम् । - कुर्वे वृत्ति विदग्धानां झगित्यर्थविबोधिकाम् ॥ इह हि प्रन्थारम्भे प्रन्यकर्ता स्वाभिमतार्थसिद्धये शिष्टाचारपरिपालनाय च सकलविघ्रविघातकारकं विशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचरति । तदेव सूत्रमुच्यतेश्रियं स पार्धाधिपतिः प्रदिश्यात्सुधाशनाधीशवतंसितांहिः । जगन्निदिध्यासुरिव त्रिमूर्तिर्यत्कीर्तिरासीत्रिदशत्रवन्ती ॥ १ ॥ स त्रिजगदद्वैतमहिमा श्रिया त्रैलोक्याधिपत्यलक्षणया चतुस्त्रि[श]दतिशयरूपया लक्षम्या वा युक्तः पार्श्व एवाधिपतिः स्वामी जगदीश्वरः । यद्वा-अष्टचत्वारिंशत्सहस्रयक्ष. नायकः पार्श्वनामा यक्षस्तस्याधिपतिःप्रभुः। सकलसुरासुराधिपत्येऽपि पार्श्वनाथशासनाधिछातया सर्वदा पार्श्वनाथसमीप एव वर्तितया च । भद्रबाहुखामिनापि तथैवोक्तम् । 'उवसग्गहरं पासम्' इति तस्योपादानम् । श्रियं लक्ष्मी प्रदिश्यात्प्रदेयादित्याशी:प्रयोगः । किंलक्षणः पार्थाधिपतिः । मुधाममृतमश्नन्तीति सुधा अमृतमशनं येषां वा । सुषा पीयूषमश्यते एभिरिति भावे(3) वा । सुधाशना देवास्तेषामधीशा नायकाः । द्वात्रिशयन्तरिन्द्राः, विशतिर्भुवनेन्द्राः, दश कल्पेन्द्राः, द्वौ सूर्याचन्द्रमसौ इति चतुःषष्टि. रिन्द्रास्तैर्वतंसितौ । 'तत्करोति तदाचप्टे' इतीनक्तप्रत्यये 'वष्टि भागुरिरल्लोपमवाप्योरुपस
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy