________________
५५४
काव्यमाला। रौद्रोऽप्यतिकरोऽपि भिल्लप्रभुः पुलिन्दपतिरर्जुन: बोधितः बोधिबीजं प्रापेतः। केनेव । यथा धर्मघोषेण सूरिचन्द्रेण चण्डोऽपि वङ्कचूलनामा राजपुत्रीपल्लीपतिः प्रतिबोधितः । कतिचिनियमान् माहिती द्वावपीत्यर्थः ॥
उत्पथे प्रस्थितांस्तन्वतश्चापलं तत्र सूरिः किरातान्परानप्यसौ । सत्पथेऽतिष्ठिपत्सत्त्वरक्षाव्रतै रश्मिभिः शूकलान्सादिवद्वाजिनः॥५३॥ असौ होरसूरिस्तत्र शिरोत्तरानामग्रामे परानन्यानपि किरातान् भिल्लान् सत्त्वानां जन्तूनां रक्षा दया अहिंसा तदादिमैः सैव प्रथमा येषु तादृशैतैर्विविधनियमैः कृत्वा सत्पथे शोभनमार्गे अतिष्ठिपत्स्थापयति स्म। किंवत् । सादिवत् । यथा तुरगाणां दूषणभू. षणलक्षणप्रस्थापनरक्षणनर्तनधौरितादिगतिकारापणादिकलाकुशल: सादी अश्ववारः । 'अश्वारोहे चाश्ववारः सादी च तुरगी च सः' इति हैम्याम् । शूकलान्दुर्विनीतान् । 'दुविनीतस्तु शूकलः' इत्यपि हैम्याम् । रश्मिभिः वल्गाकशादिरज्जुभिः कृत्वा सत्पथै सर्वजनातिवाहिते वर्त्मनि स्थापयति । किंलक्षणान् किरातान् । उत्पथे हिंसादिविधाने दुष्टाध्वनि मार्गादितरस्थाने वा प्रस्थितान्प्रवर्तमानान्प्रचलितान् । पुनः किंभूतान् । चापलं द्यूतमांसमदिरावेश्यापापर्धिचौर्यपराङ्गनागमनाद्यनेकदुर्व्यसनेषु चञ्चलतां लौल्यं चक्रपदस्थापनगमनादि च तन्वतः प्रकुर्वतः आद्रियमाणान्विस्तारयतश्च ॥ इत्यर्जुनपल्लीपतितत्सेवकानां नियमदानम् ॥
सूरिशीतांशुरापृच्छय भिल्लाधिपं संप्रणिन्ये पुरस्तादथ प्रस्थितिम् । तावदने ददर्शार्बुदोर्वीधरं विन्ध्यमभ्येतमेतं विनन्तुं किमु ॥ १४ ॥
अथार्जुनादीनां नियमदानानन्तरं सूरिशीतांशुहीरसूरिचन्द्रः भिल्लाधिपमर्जुन किरातराजमापृच्छय प्रश्नयित्वा पुरस्तादग्रे प्रस्थितिं प्रस्थानं गमनम् । प्रयाणमित्यर्थः । संप्रणिन्ये करोति स्म । प्रभुभट्टारकस्तावदप्रे पुरतः अर्बुदनामानमुवीधरं पर्वतं ददर्श लोचनगोचरीकरोति स्म । उत्प्रेक्ष्यते-विन्ध्यं जलबालकापरपर्यायं शैलम् । 'विन्ध्यस्तु जलबालकः' इति हैम्याम् । एतं सूरि विनन्तुं विशेषेण नमस्कर्तुमभ्येतं संमुखमागतमिव ॥
यो गिरिस्तुङ्गिमश्रीभिरन्यान्पराभूय शृङ्गारङ्गत्पयोदोपधेः । छत्रमाधत्त मायूरमुर्वीधराधीशितुर्नन्दनस्तं जयाकं किमु ॥ ५५ ॥
य उवींधराणां पर्वतानां भूपालानां चाधीशितुर्भर्तुर्नायकस्य भर्तुर्हिमाचलस्य चक्रवर्तिनो वा नन्दनः पुत्रः। गौरीवरश्वशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदम्बकस्य । मन्दाकिनीधनजटे दधदुत्तमाओं यः शालकः शशिभृतोऽभिनयं करोति ॥' इति गुर्जरेश्वरपुरोहितवस्तुपालवयस्यसोमेश्वरमविरचितलूणिगवसतिपट्टिकोत्कीर्णवस्तुपालप्रशस्तावबुंदादेहिमाद्रिपुत्रत्वं प्रकटमास्ते । एतावतार्थेन अर्बुदनामा गिरिः कश्चित्सार्वभौमतनुजन्मा च । उत्प्रेक्ष्यते-भृङ्गाने शिखरोपरितनप्रदेशे रङ्गतां चरतां पयोदानां सजलजलधरा