________________
५५२
काव्यमाला।
भाखतः कान्तिवद्वारुणीरागिणीः शालिपत्रावलीः शालिशान्खा इव । नन्दनानन्दिनीर्मन्दरोर्वीरिव प्रीणयन्तीर्मनः साधुगोष्ठीरिव ॥ १७ ॥
काश्चित्किरातीः । वारुणी मदिरा तत्र विषये तत्पाने राग: अस्लासामिति रागिणीः । 'काश्चित्कादम्बरीमधुपानमदपूर्णितदृशः' इति चम्पूकथायां भिल्लीनामपि मदि- . रापानं दृश्यते । किंवत् । कान्तिवत् । यथा भाखतः सहस्ररश्मेः कान्तयो दीप्तयः वा. ' रुण्यां वरुणदिक्पालस्य इयं दिग्वारुणी पश्चिमा दिक् तस्यां रागिण्यः । पश्चिमायां.' समेतस्य सायं मार्तण्डमण्डलस्य मरीचयो रागरनिताः सरागा भवन्ति । राग आसकिररुणिमा च । पुनः किंभूताः । शालन्ते शोभन्ते इलेवंशीलाः शालिन्यः पत्रावल्यः पत्रलताः यासाम् । का इव । शालिशाखा इव । यथा वृक्षाणां शिखाः शोभनशीलाः पत्राणां पर्णानामावल्यः श्रेणयो यासु तादृश्यो भवन्ति । पुनः किंभूताः । नन्द: नैर्निजाङ्गजैः पुत्रैरानन्दः प्रमोदः अस्त्यासाम् । का इव । मन्दरोर्वी रिव । यथा मेरुभूमयः नन्दननामवनेनानन्ददायिन्य: ताः । जिनशासने मन्दरो मेरुरुच्यते । यथा भक्तामरस्तवे-'किं मन्दरादिशिखरं चलितं कदाचित्' इति । यथा स्नातस्य स्तुती 'मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः' इति । मन्दरेषु पञ्चमु मेरुयु मेरुषु रत्नं लक्षयोजनप्रमाणत्वात्सवेद्वीपसमुद्राणां मध्यवर्तित्वान्नाभिस्थानकत्वाच रनम् । अपरे चत्वारो मेरवः चतुरशीतियोजनमानाः । जिनजन्माभिषेको मेरु विनान्यत्रं न स्यादिति। तथा सिद्धान्तेष्वपि मन्दरस्मरणं लभते । 'पच्च यस्स-' इत्यादि । शेवशासनेषु तु मन्दर इन्द्रकीलशैलः । अत्र तु जैनमतानुसारेणैव मेरुः । पुनः किं कुर्वतीः । मनः तद्विभ्रमविलासक्रीडादिविलोककानामन्तःकरणं प्रीणयन्तीस्तोपयन्तीः । का इव । साधुगोष्टीरिव । यथा साधूनां संसारमुमुक्षूणाम् । अथ वा साधुभिः सत्तमैः पुंभिः समं गोष्टीः संसारापारपारावारपारोत्तरणोपायप्रकथनेन सन्मतिशिक्षाप्रदानेन च मानसं परमानन्दसंदोहासादनमेदुरं विदधतीः ॥
आश्मगर्भीयसंदर्भविभाजिनीः शालभञ्जीरिव स्वैरसंचारिणीः । सूरिपादान्प्रणम्यान्प्रणन्तुं निजास्तत्र कान्ताः किरातेशिताहवत् ४८ पुनरुत्प्रेक्ष्यते-आदमगीयो मरकतरत्नसंवन्धी । 'मरकतं त्वदमगर्भः' इति है. स्याम् । यः संदर्भो रचनाविशेषस्वेन विभ्राजन्ते इत्येवंशीलाः । पुनः किंभूताः । स्वेच्छया खतन्त्रं दिव्यानुभावात्कोकाशसूत्रधारादिकृतकी लिकादिप्रयोगाद्वा संचरणशीलाः । इतस्ततः परिभ्रमणखभावाः शालभञ्जीः पाञ्चालि का इव । एषु सर्वेष्वपि वृत्तेषु । द्वितीयाबहुवचनानि ज्ञेयान्यप्रेतनसंबन्धात् । एवं व्यावर्णितखरूपा निजा आत्मीयाः कान्ताः प्रियतमाः किरातानां भिल्लानामीशिता खामी अर्जुनस्तत्र भगवत्पादपवित्रीकृतनिकेतने प्रणम्यान जगज्जननमस्करणीयान् सूरिपादान् प्रणन्तुं नमसितुमजूहवदा