________________
१२ सर्गः] हीरसौभाग्यम् ।
५४१ शुशुभे । उत्प्रेक्ष्यते-सार्वस्य तीर्थकरत्य विश्वेषां त्रिजगतामाधिपत्यं खामित्वम् । राज्यमित्यर्थः । तस्य तत्र वा अभिषेचनं स्थापनं तस्य क्षणे प्रस्तावे महोत्सवे वा श्रे. यसे कल्याणकृतये मृष्टैर्निर्मितैरिव । लोकेऽपि प्रायो महोत्सवसमये तोरणानि बध्यन्ते । पुनर्यत्र समवसरणे द्वारवारैारद्वारैः पुस्फुरे स्फुरितम् । उत्प्रेक्ष्यते-येन भगवता जनान् भव्यलोकान् मुक्तिपुर्या सिद्धिनगर्यां मोक्षमध्ये नेतुं प्रापयितुमुद्घाटितैर्मुकुलीकृतैरर्थान्मुक्तिपुरीद्वाभिरिव ॥ . शंभुमुद्दिश्य मुक्तैः स्मरेणाशुगैमोघतां किं गतैरन्तरेऽवस्थितैः ।
ढौकितैरात्मनः किं वपुर्लिप्सया पुष्पचापेन वाभाजि यस्मिन्सुमैः॥१५॥
यस्मिन् समवसरणे सुमैः पञ्चवर्णजानुप्रमाणाप्रमाणोज्जम्भमाणकुसुमैरभ्राजि रेजे । उत्प्रेक्ष्यते-स्मरेण मनोभवेन विरोधितया शंभु पार्वतीपतिमहन्तं वा उद्दिश्य संकल्प्य मुक्तैः क्षिप्तरसाधारणसिद्धयनुभावात् शंभुविषये पुनर्मोघतां विफलतां गतः प्राप्तैः । अत एव वेध्या लब्धात् अन्तर्मध्ये विचाल एव स्थितैः पतितैराशुगैर्बाणरिव कामस्य च पुष्पशरत्वात् । अथ वा पुष्पचापेन श्रीनन्दनेन अनङ्गत्वादात्मनः खस्य वपुर्लिप्सया शरीरप्राप्तिकाङ्कया ढौकितैरुपदीकृतैः शरैः किं खविशिखैरिव ॥
धीरिमाधःकृते शीलतीव त्रपासंकुचद्गौरवे स्वर्गिरौ विष्टरे । यत्र शौर्येण निर्जित्य वन्दीकृतः श्रीजिनेनेव पञ्चाननोऽधःकृतः॥१६॥ यत्र समवसरणे विष्टरे भगवदुपवेशनोचिते सिंहासने पश्चाननः केसरी अधः अर्याजिनेन्द्रस्याधस्तास्थितः तिष्ठति स्म । उत्प्रेक्ष्यते-श्रीजिनेन त्रिभुवनाधिपत्यलक्ष्मीविलासरसिकेन तीर्थकृता शौर्येण खशूरतया साहसिक्येन निर्जित्याभिभूय वन्दी. कृतो वन्द्यं विहितः सन् अधस्तस्थिवान् विष्टरे । पुनरुत्प्रेक्ष्यते-धीरिम्णा सुरासुरनराद्यचालनासाधारणधैर्येण कृत्वा अधःकृते परिभूते नीचैः कृते न्यकारं प्रापिते । अत एव त्रपया लजाधिक्येन संकुचल्लघूभवद्गौरवं गुरुत्वमुच्चैस्तरत्वं वपुषो महत्त्वं च यस्य तादृशे शीलति । अर्थाद्भगवन्तं सेवमाने खगिरी सुवर्णाचले ॥
अर्हता त्रातुमात्माश्रितान्संसृते लुकान्कि चतुर्दिक्समेताञ्जनान् ।
यत्र तेषां चतस्रो गतीर्वा निराकर्तुमूहे चतस्रः कृता मूर्तयः ॥ १७ ॥ - यत्र समवसरणे अहता तीर्थकृता चतस्रश्चतुःसंख्याका मूर्तयः कायाः कृता निमिताः । उत्प्रेक्ष्यते-संमृतेः संसारात् अनादिभवपरम्परापरिभ्रमणदुःखभरात् भीलुकान् बिभ्यतीत्येवंशीलान् । तथा च चतुर्दिग्भ्यः पूर्वादक्षिणापश्चिमोत्तरालक्षणाभ्यः चतस्रो हरिद्भयः समेतान् खसमीपे समागतान् अत एवात्मानं भगवन्तम् । 'क्षेत्रज्ञ आत्मा पुरुषः' इति हैम्याम् । आश्रितान् उपेल खशरणीभूतान् भावकलोकान् किं त्रातुं रक्षितुमिव चतस्रो मूर्तयो विहिताः । अथ वा ऊहे अहमेवं विचारयामि । पूर्वोक्तविशे