________________
५३२
काव्यमाला ।
याच्ञा मे क्रियतां फलेग्रहिरसौ द्रोणिर्द्रुमाणामिव प्रनिद्रा मधुना स तुष्यति यथा पृथ्वीमहेन्द्रो मयि । इत्यावेद्य निवृत्तिमीयुषि पुराधीशे वशीन्द्रो गिरं
जग्राहोष्णऋतौ कृतव्यवसितौ मेघाम्बुधारामिव ॥ १४९ ॥
इत्यमुना पूर्वोक्तप्रकारेण आवेद्य कथयित्वा निवृत्तिमुपरममुपेयुषि मौनमासेदुपि पुराधीशे साहिबखाने सति सूरिहर गुरुर्गिरं वार्णी जग्राहोपादत्त । बभाषे इत्यर्थ: 1 क इव । मेघ इव । यथा कृता निर्मिता व्यवसितिः स्वसमयोचितप्रबल्लूकातापपयः शोषप्रमुखा व्यापृतिर्येन तादृशे उष्णऋतौ निदाघसमये निवृत्ते सति जलधरः प्रावृषेण्यपयोधरः अम्बुधारां वारिवृष्टिं गृह्णाति । इति किमावेद्य । हे गुरो, श्रीमता मे मम याच्या प्रार्थना फलेग्रहिः सफला क्रियताम् । केनेव । मधुनेव । यथा वसन्तेन ऋतुना द्रुमाणां विविधजातितरूणां द्रोणिः श्रेणि: प्रोनिद्रा विकसिता फलकलिता क्रियते । तथा यथा येन प्रकारेण स पृथिवीमहेन्द्रः अकव्वरसा हिमथि तुष्यति हष्टचित्तो भविष्यति तथा विधीयताम् ॥
रक्षामो जगदङ्गिनो न च मृषावादं वदामः कचि
न्नादत्तं ग्रहयामहे मृगदृशां बन्धूभवामः पुनः । आदध्मो न परिग्रहं निशि पुनर्ना श्रीमहि ब्रूम
ज्योतिष्कादि न भूषणानि न वयं दध्मो नृपैतान्त्रतान् ॥१५०॥
हे नृप, वयमेतान् व्रतान् नियमविशेषान् दध्मो धारयामः । व्रतशब्दः पुंनपुंसके । तानेव पृथक्कृत्य दर्शयति-वयं जगतां त्रयाणामपि भुवनानामङ्गिनो जन्तून् रक्षामः वसंतानवत्पालयामः । च पुनः क्वचित् प्राणत्यागेऽपि मृषावादं मिथ्याभाषां न वदामो ब्रूमः । पुनः क्वचिद्रामादावरण्यादावपि चादत्तं केनापि स्वामिप्रमुखेन अविश्राणितं तृणाद्यपि न ग्रहयामहे न गृह्णीमः । पुनर्मृगदृशां सर्वासामपि स्त्रीणां बन्धूभवामः । मुक्ताशेषविषयाभिलाषतया विश्ववनिताः स्वभगिनीतुल्या गणयामः । पुनः परिग्रहं धनधान्यक्षेत्र क्रियाणकांशुकादिवस्तुरूप्यमुवर्णरूप्य खर्णादिमयस्थालकच्चालका दिकं कुप्यद्विपदचतुष्पदलक्षणं नवविधवस्तूनां संग्रहं नादध्मः किमपि संसारहेतुभूततया परिग्रहमात्रं नैव रक्षयामः । पुननिशि रात्रिविषये नानीमहि सर्वथापि नैव भुञ्जाम: । पुनज्र्ज्योतिष्कादिनिमित्तलक्षणं चन्द्रग्रहादिकं न ब्रूमहे कदापि न कथयामः । पुनर्भूषणानि मणिखर्णादिमयान्याभरणानि न दध्मः वपुषि न धारयामः । अत्र दध्म इति क्रिया घण्टालोलान्यायेन उभयत्र व्रतभूषणादिषु योजनीया ॥
वाहाः पञ्च महाव्रतानि करिणः क्षान्त्यादिधर्मा दश
शीलाङ्गाख्यरथा नवद्व्यमिताः पार्श्वे सहस्राः सदा ।