________________
काव्यमाला |
राजन्हुताशा इव हेतिभीषणाः पुनर्गिरीशा इव रुद्रताङ्किताः । शान्तात्मनामार्द्रहृदां महात्मनां नौचित्यमेते दधते पदातयः ॥ १४३ ॥ हे राजन् भूपते, एते दण्डभृच्चण्डप्रचण्ढाकृतयः पदातयः पादचारिणः शान्तः शमवानात्मा स्वरूपं येषां तेषां शान्तात्मनाम् । तथा आई यावजन्तुजातोपरि कृपया क्लिन्नम् । पूर्णमित्यर्थः । हृदयं येषां तेषामार्द्रहृदां महात्मनां सतां साधूनां वा औचित्यं योग्यतां न दधते विभ्रते । किंभूताः । हुताशाः कृशानव इव हेतिभिर्विविधायुधैज्वलावलीभिश्च भीषणा भयानकाः अतिभीतिकारिणः । पुनः किंभूताः । रुद्रतया चण्डत्वेन अङ्किताः कलिताः । क इव । गिरीशा इव । यथा ईश्वरा रुद्राभिधानत्वेनान्विताः । यतः एकादश रुद्राः । ‘रुद्रोहीशो वामदेवो वृषाङ्कः' इति हैम्याम् ॥ माद्यन्त्यष्टापदैःथ्वीकान्त कैतवजीविनः ।
सन्तः संयमसाम्राज्या न पुनर्नयचक्षुषः ॥ १४४ ॥
हे पृथ्वीकान्त भूभामिनीवल्लभ, कैतवेन दुरोदरेण जीवन्ति प्राणान्धारयन्तीति कैतवजीविनो द्यूतकाराः अष्टापदैः शारिफलैः द्यूतक्रीडोपकरणविशेषैः कृत्वा माद्यन्ति मदेन हृष्यन्ति । पुनः सन्तः साधवः अष्टापदैः स्वर्णैः कृत्वा न मदयुक्ता भवन्ति निर्ग्रन्थत्वान्निष्परिग्रहत्वाच्च । किंभूताः । संयमस्य चारित्रस्य साम्राज्यमैश्वर्ये येषाम् । तथा नये नैगमादिसप्तभेदभिन्ने न्याये वा चक्षुर्दर्शनं येषां नय एव चक्षुर्येषां वा ॥
५३०
धामसाधिमभृतः कलयन्त्यः स्त्रीत्वमात्मनि पुनर्वनितावत् । त्यक्तगेहगृहिणीद्रविणानां प्रीणयन्ति न मनो मणिमालाः ॥ १४५ ॥ हे नृप, त्यक्तानि मुक्तानि गेहानि मन्दिराणि गृहिण्यः स्त्रियः द्रविणानि धनानि यैस्तेषां साधूनां मनश्चित्तं मणिमाला रत्नश्रेणयो न प्रीणयन्ति न तोषयन्ति । किंभूतस्य । धाम्नां तेजसां साधिमानं चारिमाणं स्फूर्ति बिभ्रतीति । त्वयादृतः किं नरसाधिमभ्रमः' इति नैषधे । किं कुर्वन्त्यः । आत्मनि स्वे स्त्रीत्वं स्त्रीलिङ्गतां कलयन्त्यः । किंवत् । वनितावत् । यथा नार्यः धामसु सौधेषु साधुतां धारयन्ति । यतो गृहमण्डनाः स्त्रियः । अथ वा । 'घरघरणीइपणघरचलइनही' इति लोकोक्तिः । पुनरात्मनि विषये स्त्रीत्वं वनिताभावं बिभ्रते ॥
बिभ्राणा अपि बाह्यतो विशदतां छिद्रं दधत्यन्तरा
तेनामी उचिता न मौक्तिकगणा द्वेधापि शुद्धात्मनाम् । भूप स्तम्भजुषो जडात्मवदमी जावीवधै
र्बाधन्ते च परांस्ततो मतिमतामेभिर्न कृत्यं पुनः ॥ १४६ ॥
हे भूप हे पृथ्वीपाल, येन कारणेन अमी मौक्तिकगणा बाह्यतो बहिस्ता जनहरगो