________________
३२८
.
काव्यमाला।
मेलाशयतां वहते । निष्कलङ्गितां वा धत्ते । च पुनरिमे बहुजनवायाः शिबिका याप्ययानमाद्यं प्रथमं येषु लोके 'पालखी' इति प्रसिद्धा । तत्तद्यानत्राता: मुखासनचकडो. लाभिधानोपवेशनोचितासनसंघाता वर्तन्ते । उत्प्रेक्ष्यते-विनाना इव । विमानशब्दः पुंक्लीवलिङ्गे । यथा 'धनविधनविमानाः' इति लिङ्गानुशासने ' पुनरेतानि श्रीमत्परिधानार्थमानीतानि वासांसि वस्त्राणि सन्ति । उत्प्रेक्ष्यते-सुमनसां देवानामंशुकानि देवदूध्यानीव ॥
अनुगृहाण गृहाण पुरस्कृतं त्वमिदमन्यदपीहितमात्मनः । . विफलयन्ति यतः सुजनाः मुरावनिरुहा इव न क्वचिदर्थनाम् ॥१३७॥ हे प्रभो, त्वं मामनुगृहाण ममोपरि प्रसादं कुरु । मध्यनुग्रहं कृत्वा इदं त्वत्प्रत्यक्षं पुरस्कृतं त्वदने मया दौकितं वस्तुजातं गृहाण । अपि पुनरन्यत्परमपि आत्मनः खस्य समीहितं कामितं च मार्गयित्वा याचित्वा च स्वीकुरु । यतः कारणात् मुजनाः सन्तः क्वचित्कुत्रापि स्थाने अर्थनां याचनां न विफलयन्ति न मोघीकुर्वन्ति । क इव । मुराव. निरुहा इव । यथा कल्पवृक्षाः क्वचनापि प्रार्थनां न निष्फलीकुर्वते॥
अलिकचुम्बिकराम्बुजयामल: प्रकटयन्विनयं स विनयवत् । इदमुदीर्य वचोव्यवहारतो निववृते श्रमणाधिपतेः पुरः ॥ १३८ ॥ स साहिबखानः श्रमणाधिपतेः सूरेः पुरोऽग्रे इदं पूर्वोक्तमुदीर्य कथयित्वा वचोव्यवहारतो वाग्व्यापारानिववृते निवृत्तः। किंभूतः । अलिकं भालं चुम्बत्याश्लिषतीत्येवंशीलं करावेवाम्बुजे पद्म तयोर्यामलं द्वन्द्व यस्य भालस्थले स्थायि करकमलयुगल: । कृताभलिरित्यर्थः । पुनः किं कुर्वन् । विनेयवत् मुशिष्य इव विनयं भक्तिनम्रतां प्रकटयन् प्रकाशयन् ॥ इति साहिबखानस्य सूरिपुरो वस्तुग्रहणविषया विज्ञप्तिः ॥
गृह्णतो गिरमुदीत्वरदन्तत्रातदीधितिरभासत सूरेः। निर्गता बहिरिव प्रणिधानक्षीरनीरधिलसल्लहरीव ॥ १३९ ॥ गिरं प्रत्युत्तरवाणी गृह्णत आददानस्य भाषमाणम्य सूरेहीरगुरोरुदीत्वरा उद्च्छन्ती प्रकटीभवन्ती दन्तानां दशनानां वातस्य व्रजस्य दीधितिः कान्तिः अभासत शोभते स्म । उत्प्रेक्ष्यते-बहिर्हृदयाद्वायप्रदेशे निर्गता निःसृता प्रणिधानं तदेव क्षीरनिधिः दुग्धोदधिः तस्य लसन्ती स्फूर्जन्ती लहरी वीचीव ॥
कलिक्षितीन्द्रानिव दुर्बलश्रुतींश्चक्रीकृतास्यान्धृतचापलान्पुनः । क्षमा सकोपानिव निम्नतस्त्यजेद्रं तुरङ्गान्स्पृहयशिवश्रियम् ॥१४॥
हे खान, शिवस्य कल्याणसिद्धेश्च श्रियं लक्ष्मी स्पृहयन् कामयमानः साधुरुत्तमो मुनिश्च कलिक्षितीन्द्रान्कलिकालोपत्रभूपालानिव तुरङ्गान्वाजिनः दूरं विप्रकृष्टं त्यजेत् मुश्चेत् । किंभूतान् तुरङ्गान् कलिनुपांश्च । दुर्बलश्रुतीन् लघुकीन् । परापवादप्रकटनपटु