SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५२६ काव्यमाला | क्षोमाणि उपलक्षणादपराप्यप्यंशुकरन कम्वलादीनि, दामानि मुक्ताहारादीनि, आभरणानि रजतकनकघटितविविधभूषणानि, तान्यादौ प्रथम यत्र तादृक् वस्तुजातम् । पदार्थसार्थमित्यर्थः । उपायनी कृत्य ढौकयित्वा ॥ किमुवाच तदेवाह— साहिश्रीमदकव्बरावनिभुजेत्यादिष्टमास्ते मम द्युम्नस्यन्दनवाजिवारणमुखं संपूर्य तत्कामितम् । श्रीसूरीश्वरहीरहीरविजयं संप्रापयेस्त्वं ममा भ्यासं स्वीयमिवाद्रियस्व तदिदं विश्राण्यमानं मया ॥ १३३ ॥ 1 हे प्रभो, तत्कारणात् मया विश्राण्यमानं तुभ्यं गुरवे दीयमानमिदं प्रत्यक्षं श्रीमत्पुरो ढौकितं सर्वे वस्तुजातमाद्रियख स्वीकुरुथ । किमित्र । स्वीयमिव । यथा जनैः आत्मीयमशेषवस्तुजातमङ्गीक्रियते । यत्तदोर्नित्याभिसंबन्धात् यत्कारणात् । साहिना पातिसाहिना श्रीमता स्वभुजोपार्जित दश दिक्चक्रलक्ष्मीवता अकबरनाम्ना अवनिभुजा भूमी भामिनी. भोका । पृथ्वीपालेनेत्यर्थः । इत्यमुना प्रकारेण आदिष्टं 'लेखद्वारा प्रसादितमास्ते । स्फुरन्माने लिपाकारितमस्तीत्यर्थः । इति किम् । श्रिया संयमलक्ष्म्या कोतन्दिरया च युक्ता ये सूरीणामाचार्याणामीश्वरा अणिमादिविद्धिविविधलब्धिभाजो महत्तमास्तेषु सर्वोत्कृष्टत्वात् हीरोऽमूल्यवज्र मणि: । मुख्य इत्यर्थः । तादृशं हीरविजयं सूरिं ममाभ्यासं पार्श्वं प्रापयेः सम्यक् संमानादिप्रकारेण प्रेषयेः । किं कृत्वा । द्युम्नानि सुवर्णरजतमाणकादीनि द्रव्याणि, स्यन्दना रथाः, वाजिनस्तुरगाः, वारणा हस्तिनः, तन्मुखे वदने वा आदौ यस्य तादृशं तत्कामितं सूरिसमीहितं संपूर्य संपूर्णीकृत्य । सूरिर्यन्मार्गयति तत्तदर्पयित्वा फतेपुरे मत्समीपे शीघ्रं संप्रेषणीय इत्यर्थः ॥ स्वामिन्मे गन्धवाहा इव धृततनवः स्वान्तवेगास्तुरङ्गाः सोदर्याः कज्जलारिव मदमुदितश्रान्तभृङ्गाः करीन्द्राः । त्वष्ट्रेव स्वेन सृष्टा यदुपतय इवोद्यद्रथाङ्गाः शताङ्गाः पत्तित्राताश्च मूर्ति दधत इव रसा वीरनामान एते ॥ १३४ ॥ हे स्वामिन् गुरो, मम मदीया एते श्रीमत्प्रत्यक्षलक्ष्या स्तुरङ्गाः अश्वाः सन्ति । किंभूता: । स्वान्तवन्मन इवं त्वरितो वेगो येषाम् । उत्प्रेक्ष्यते - धृततनवः अङ्गीकृताङ्गाः गन्धवाहाः पवना इव । च पुनरेते दृग्गोचरा गर्जजलधरानुवादिनः करीन्द्राः कुञ्जरराजा वर्तन्ते । किंभूताः । मदेन करिकपोलस्थल निर्गल द्वहलदानजलपानेन मुदिता हृष्टाः . अत एव भ्रान्ताः परितो भ्रमणकारिणो भृङ्गा भ्रमरा येषु ते । उत्प्रेक्ष्यते— कजला - रञ्जनगिरेः सोदर्याः सहोदरा इव । श्यामतया तुङ्गतया वा भ्रातर इव । पुनरेते श्रीपुरस्कृताश्चामरध्वजनन्दिघोषाद्यलंकृताः शताङ्गाः रथा विद्यन्ते । किंभूताः । उत्प्राबल्येन
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy