SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५२४ काव्यमाला। पादावधारणमकामेपुरस्याहम्मदावादस्य अविभूः खामी । 'अधिपस्त्वीशानो नेता परिवृढोऽधिभूः' इति हैम्याम् । साहिबखानस्तस्य श्रवणयोः कर्णयोः प्रागोऽतिथिरासीत् भवति स्म । साहिवखानेन सूरिसमागमनमाकर्णितमित्यर्थः । किंवत् । वडिवीजस्य कनकस्य । 'कलधौतलोहोत्तमवहिवीजान्यपि गारुडं गैरिकजातरूपे' इति हैम्याम् । विलसतां विकखरीभवतां दलानां पत्राणां मालया श्रेण्या शालते शोभते इत्येवंशीलस्य वारिजन्य पद्मस्य वतंसवत् । यथा ईमाम्बुजावतंसः श्रवणयोः प्राघुणो भवेत् ॥ चतुरङ्गचमूचलनप्रसृतै रजसां निवहैर्हरितां दयितान् । . . सममाहयतीव पुराधिपतिर्यतिनाथनिनंसुरसौ प्रचलन् ॥ १२७ ॥ असौ साहिवखाननामा पुराधिपतिः राजनगरराज: रजसा रेणूनां निवहैः समूहैः . हरितां दयितान् दिक्पालान् समं समकालमेवाह्वयति । अथ वा आत्मना समं सार्धमाकारयतीव । अर्थात्प्रभुं नन्तुम् । किंभूतैः । चत्वारि चतुःसंख्याकानि वाजिवारणरथपदातिलक्षणान्यानि अवयवा यस्यां तादृश्याश्चम्वाः सेनायाश्चलनेन प्रसतैः प्रतिदिशं विस्तृतैः । असौ किंभूतः । यतिनायं हीरसूरि निनसुनमस्कर्तुमिच्छुः सन् प्रचलन्प्रतिष्ठमानः ॥ तत्पुराधिपतिसाधुधरित्रीनाथयोः पथि युगं मिलति स्म । कौमदीदयितनिर्जरराजाचार्ययोर्द्वयमिवैककराशौ ॥ १२८ ॥ तत्पुरस्याहम्मदाबादनगरस्याधिपतिः साहिबखानस्तथा साधूनामनगराणां मध्ये धरित्रीनाथो महीपतिः राजा तयोर्युगं युगलं पथि सूरिसमागमनमागें मिलति स्म एकत्र भवति स्म । किमिव । द्वयमिव । यथा एक एव एककः स चासौ राशिश्च मेषादिकः ए. कराशिस्तस्मिन् कौमुदीदयितश्चन्द्रः तया निर्जराणां सुराणां राजा खामी पुरंदरस्तस्याचार्यों बृहस्पतिः । 'शैशवावधि गुहर्मुरुरस्य' इति नैषधे । तयोर्द्वन्द्वं मिलति ॥ नमति स्म मुनीश्वरं पुरीपुरहूतोऽमितभक्तिनिर्भरः । शिखरीव गरीयसीं श्रियं फलपतेः कलयन्निलातलम् ॥ १२९ ॥ न मीयते स्मेत्यमिता प्रमाणरहिता तादृश्या भक्त्या निर्भरः सोत्सुकः तादृशः पुरीपुरहूतः राजनगराखण्डल: मुनीश्वरं नमति स्म । प्रभोः प्रणाम कृतवानित्यर्थः । क इव । शिखरीव । यथा फलानां सस्यानां पङ्केः धोरण्या गरीयसीमतिगुर्वी श्रियं शोभां कलयन्बिभ्राणो वृक्षः इलातलं भूमीमण्डलं नमति ॥ प्रेक्षप्रस्खलिताखिलाम्बरचरवाते प्रणीते क्षणे पौराणां प्रकरैः प्रवेशितमतिप्रीत्या पुरस्यान्तरे । आगृह्यानयति स्म तत्पुरपतिः सूरीश्वरं खान्गृहान्नेतं संप्रतिकाश्यपीपतिरिख श्रीमत्सुहस्तिप्रभुम् ॥ १३० ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy