SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ . ११ सर्गः] हीरसौभाग्यम् । ४९१ सम्यक् शिरस्यारोपणपूर्वमादाय गृहीत्वा । उत्प्रेक्ष्यते-अनूना संपूर्णी तनं शरीरमुद्वहन् बिभ्राणः । तथा प्रतीन्द्रं सूरिराजं प्रति प्रसर्पन् गच्छन् । एतदीयोऽकम्बरसाहिसंबन्धी अभिलाषः कामः मनोरथ इव ॥ प्रबुद्धैरबोधीति नोत्तालफालं चलद्वीक्ष्य जङ्घालदूतद्वयं तत् । स्पदस्फूर्तिरस्थैर्यमाजां गनोभिस्ततस्तेन तेभ्योऽथ वाधीयते स्म ॥२१॥ उत्ताला अतित्वरिता फाला गगनगामीनि उल्ललारूपा गतिविशेषा यस्य तादृशं तत्साहिसंबन्धि साहिप्रेषितं वा जालमतिवेगवद्गतिकं दूतद्वयं संदेशहारकयामलं चलत्पथि प्रसर्पत् वीक्ष्य विलोक्य प्रबुद्धैर्विद्वद्भिरेतन्नाबोधि न ज्ञातम् न मनस्यवधारितम् । इति किम् । न स्थैर्य स्थिरता भजन्ते इत्यस्थैर्यभाजः चपलाशयास्तेषां मनोमिश्वित्तैस्तस्मादृतयुग्मात्किमिति उत्प्रेक्षायां विचारणायां वा । स्पदानां गतिवेगानाम् । 'रयो रहस्त्वरः स्पदः' इति हैम्याम् । तथा 'स्पदझाङ्कारितपत्रपद्धतिः' इति नैषधे । स्फूर्तिरतित्वरितता अधीयते स्म पठिता । अथ वा तेन दूतद्वन्द्वेन तेभ्यो मनोभ्योऽधीयते स्म शिक्ष्यते स्म किम् । इति संशयोत्प्रेक्षा ॥ क्रमाभ्यामतिक्रम्य संदेशहारिद्विकं ग्रामकुल्याचलारामसीमाः । मुदाहम्मदाबादमागाक्रमात्तत्सहाध्यायि किं रहसां मारुतानाम् ॥२२॥ क्रमादनुक्रमतः स्वादेशपरदेशप्रचलनपरिपाट्या तत्साहिसंबन्धि संदेशहारिद्विकं दूतद्वयं मुदा हर्षोत्कर्षेण अहम्मदाबादमागादकमिपुरमाजगाम । ‘मा गास्त्वं खेदमन्दिरम्', तथा 'अरे त्वं साध्वसं मागाः' इति सारखतव्याकरणादौ । प्रामाः संवयथास्तोकचातुर्या दिगुणा प्रामा लघुपुराणि वा उपलक्षणानगरपुरपत्तनादीन्यपि, तथा कुल्या लघुमहद्वादिन्यः, अचलाः पर्वताः, आरामाः उद्यानानि उपलक्षणाद्वनगहनारण्यादीन्यपि, सीमा ग्रामनगरादीनां क्षेत्रभूमयो देशावसानभुवो वा, ताः क्रमाभ्यां खपदाभ्यां न तु यानैरतिक्रम्योल्लङ्य । उत्प्रेक्ष्यते-दूतद्वन्द्वं मारुताना पवनानां रेहसा वेगानां सह सार्धमध्येतीत्येवंशीलं सहाध्यायि एकगुरुसमीपेऽधीतिकृत्किम् । वेगेन तुल्यत्वादियमु. स्प्रेक्षा ॥ इत्यकमिपुरे दूतगमनम् ॥ रणे वैरिणां पार्थिवा येन देहा हताः पेतुरुर्वीमिवाम्बां मिलन्ति । ययौ तत्पुराधीशितुः संनिधाने द्वयं दूतयोर्मुद्गलक्षोणिभर्तुः ॥ २३ ॥ दूतयोः शासनहारिणोर्द्वयं युगलं तस्याहम्मदाबादनाम्नः पुरस्य नगरस्याधीशितुः खामिनः मुद्गलानां काबिलमण्डलजन्मनां यवनजातिविशेषाणां क्षोणिभर्तुर्भूपस्य संनिधाने समीपे ययौ । तस्य कस्य । येन साहिबखानेन रणे संग्रामाङ्गणे वैरिणां शत्रुणां पृथिवीपरमाणुभिरारब्धाः पृथिवीविभागाः पृथिवीसंबन्धिनः । 'पार्थिवं हि निजमाजिषु वीरा गौरवाद्वपुरपास्य भजन्ते' इति नैषधे । देहाः शरीराणि हताः क
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy