________________
४३८
काव्यमाला।
पादिता ये अहितानां प्रतिपक्षिणामश्वास्तुरङ्गमास्ते शौयोदयात् शूरतायाः प्रादुर्भावान्मु. हुर्मुहुः वारंवार दिवि गगने उत्पतन्ति उच्छलन्ति उच्चैः फालां ददते । उत्प्रेक्ष्यतेभूमौ पृथ्वीपीठे निजस्यात्मनोऽभिभवतः पराभवनोदयात् सवितुः सूर्यस्य पितुर्वा सगोत्रान् खजनान्बन्धून् ताानश्वान् आश्रयितुं शरणीकर्तुमुत्सुकतामुत्कण्ठां वहन्तो धारयन्त इति । विपत्तौ खजनाः श्रीयन्ते इति स्थितिः श्रुतिर्वा ॥
एतत्कृपाणनिहताहितकुम्भिकुम्भ
निष्पातिमौक्तिकततिः समरे विरेजे। दृष्ट्वा हतान्खपतिभूमिपतींस्तदीय
लक्ष्मीक्षणप्रपतदश्रुकणावलीव ॥ २२ ॥ एते अकब्बरसाहिना कृपाणेन निजचन्द्रहासयष्टिना कृत्वा निहता व्यापादिता विदा. . रिता ये अहितानां खप्रतिपक्षाणां कुम्भिनां भद्रजातिजातानां कुम्भाः शिरःपिण्डा. स्तेभ्यो निष्पतति निर्गलति निःसरतीत्येवंशीला निष्पाविनी मौक्तिकानां मुक्ताफलाना ततिर्मालिका समरे संग्रामाङ्गणे विरेजे राजते स्म निर्वभौ । उत्प्रेक्ष्यते-खस्यात्मनः पतीनायकान् भूमिपतीन्धरणीरमणान् हतानादकव्वरेण खविरोधितया यमातिथीकृतान्दृष्ट्वा व्यालोक्य तदीयलक्ष्मीणां प्रत्यर्थिपार्थिवसंबन्धिनीनां श्रीणाम् । राज्यलक्ष्मीणामित्यर्थः । ईक्षणेभ्यो विलोचनेभ्यः प्रपतन्ती प्रकर्षणाविरलधाराधराम्बुधारायमाणधार निःसरन्ती अश्रुकणानां बाष्पबिन्दूनामावलीव धोरणिरिव ॥
रोभाङ्कराः समिति यस्य समुच्छ्रसन्ती
संवाससंगतगुणप्रगुणीभवन्तः । एतद्वदुद्धतविरोधिधराधवानों
हृल्लेखतामिव निशुम्भकृते वहन्तः ॥ २३ ॥ यस्य हमाउनन्दननृपस्य समिति संग्रामाङ्गणे रोम्णां तनूरुहाम् । लोम्नामित्यर्थः । 'रोमलोमतनूरुहः' इति हैम्याम् । अङ्कुराः प्ररोहाः समुच्छ्सन्ति उच्चैः संजायन्ते उल्लसन्ति । उत्प्रेक्ष्यते-एतद्वदकब्बरसाहिरिव उद्धता उत्कटा मदोन्मत्ता ये विरोधिधरा. धवाः प्रत्यर्थिपार्थिवास्तेषां निशुम्भकृते दक्षिणारमणमदिराङ्गणप्राघुणी करणार्थ हल्लेखतामुस्कण्ठोद्रेकभावं वहन्तो बित्राणा इव । अत एव किंलक्षणाः । संवासेनाकब्बरसाहिवेहे सम्यग्वसनेन सहस्थानेन वा कृत्वा संगता मिलिताः समागता वा ये गुणा: शौयोंत्साइसत्त्वादयस्ते प्रगुणीभवन्तः प्रगल्भा जायमानाः । 'यादृशैः सहवासः संगतिस्तादृशा एवायान्ति गुणाः' इति लोकप्रसिद्धिः । यदुक्कं च-'जौ जारिसेण संगं सो वि हु तारिखो होइ । कुसुमेहिं सह वसंता तिलावि तग्गं धिया हुंति ॥' इति सूत्रोक्तिः ॥