________________
काव्यमाला।
जचेतोभिप्रेतभर्तरि स्नेहाद्वा निर्मितं कृतं ताण्डवं नृत्यं यया तादृशीव । इति किम् । चस्मात्कारणादतः परमद्यतनवासरादारभ्य असी सकलराजचक्रचूडामणीरद्वैतनीतिमतामग्रणीरकब्बरक्षोणीनभोमणीर्मम भर्ता भावी भविष्यति ॥ .
संप्रस्थिते वसुमतीविजयाय यस्मि
न्भूपैविरोधिभिरदृश्यत दिक्ष दाहः। जाने निजव्यसनवीक्षणभूतनूता(ना)
सातस्खदिग्युवतिनिःश्वसिताग्निकीलः ॥ १७ ॥ यस्मिन्नकबरनृपतौ वसुमत्या वसुंधराया विजयाय स्वायत्तीकरणाथै संप्रस्थिते सम्यग्विजयविधायिमुहूर्त दिने चतुरङ्गचमूचक्रेण समं निर्मितप्रस्थाने सति । प्रचलिते. सतीत्यर्थः । विरोधो विद्यते येषां ते विरोधिनस्तैर्विपक्षैर्भूपैः क्षोणीपालैर्दिक्षु सर्वाशासु दाहो ज्वलज्वालादि ज्वालामालाकुलत्वमदृश्यत दृष्टः । सर्वा अपि हरितो ज्वलन्त्यों दृष्टा इत्यर्थः । तत्राहमेवं जाने विदांकरोमि उत्प्रेक्षे वा निजानामात्मीयानामादकब्बरपरिपन्थिपूर्वा दिदिक्पतिनृपतीनां व्यसनानां भाविमरणावधिविपत्तीनां वीक्षणेन दीर्घदर्शितया अवलोकनेन ज्ञानेन कृत्वा भूतमुत्पन्नं यन्नूनं नवीनमसातं दु:खं यासां तासां खेषां तत्तद्दिक्पतिनृपाणां दिशामेव युवतीनां प्रियाणां नि:श्वसितामेनिःश्वासानिलस्य कीलो ज्वालेव । कीलशब्दोऽकारान्तोऽप्यस्ति । 'त्रिनेत्रनेत्रानलकीलनीलम्' इति नैषधे । तथा 'वलरशफरमयूरकीलहालाः' इति लिङ्गानुशासने पुंस्त्रीलिङ्गे कील: कीला॥
भूपेऽभिषेणयति यत्र रजोभिवृष्टया . , __ दृष्टा दिशः परनृपैर्मलिनाः समग्राः । खखामिसंकटसमीक्षणमूर्छनोर्वी
निष्पातधूसरितगात्रलता इवैताः ॥ १८ ॥ यत्र यस्मिन्भूपे अकबरनृपे अभिषेणयात सति सेनाभिः समं प्रतिनृपतीनभिगच्छति सति परनृपैः प्रतिभटभूपालकलापै रजोभिवृष्टया अतिबहुलानां धूलीनामभि समन्ताद्वर्षणेन कृत्वा मलिनाः कश्मलाः मलीमसाः समग्राः समस्ता अपि दिश आशा दृष्टाः । उत्प्रेक्ष्यते-एता दिशः खासामात्मीयानां खामिनां भर्तृणां संकटानां व्यस. नानां समीक्षणेन सम्यतिश्चितत्वेनावलोकनेन कृत्वा मूर्छनैर्दुःखोद्भूतातुच्छमूर्छाभियो भूमौ निष्पातो निष्पतनं लुण्ठनं वा तेन धूसरिता ईषत्पाण्डुरिता धूलीललिता वा रजोमया वा जाता गात्रलताः शरीरयष्टयो यासां तादृश्य इव ॥
यन्मेदिनीकुमुदिनीरमणप्रयाणे
छिद्रं न्यभालि परिपन्थिभिरभ्रपान्थे ।