SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४३४ काव्यमाला । तस्याङ्गजोऽभवदकब्बर भूमिभावान्भूपालमौलिमणिचुम्बितपादपद्मः । शौरेरिवाम्बुधिशयो भुजपञ्जरान्तर्विश्रान्तवार्धिवसनाजयराजहंसः ॥ १२ ॥ तस्य हमाँउसाहेरकब्बर इति नामा भूमिभाखान् परतेजस्तिरस्कारिप्रतापवत्त्वादद्वैतत्वाच्च क्षोणीसहस्ररश्मिरभवत् । 'मध्यंदिनावधिविधेर्वसुधाविवखान्' इति नैषधे । क इव । अम्बुधिशय इव । यथा शौरेर्वसुदेवस्य कृष्णः पुत्रो बभूव । किंलक्षण: । भूपा• लानां महानृपाणां मौलीनां मुकुटानां मणीभिर्माणिक्यैश्चुम्बितमाश्लिष्य समालीढं पादपद्मं चरणकमलं यस्य । पुनः किंलक्षणः । भुजौ खबाहू एवं पञ्जरं पक्षिरक्षणस्थानं तस्यान्तर्मध्ये विश्रान्तो विश्रामाय स्थितो वार्धिः समुद्रो वसनं वस्त्रं यस्याः एतावता आचतुःसमुद्रान्तपृथिव्या जयः स्वायत्तीकरणं स एव राजहंसो यस्य सः ॥ साम्राज्यमप्यधिगतो निखिलस्य नाक: लोकस्य लोलुपतया पुनरीहमानः । भोक्तुं समग्रमपि मध्यमलोकमेत द्व्याजादुवास मघवेव वसुंधरायाम् ॥ १३ ॥ एतथाजादकब्बर साहि कपटात् । उत्प्रेक्ष्यते - वसुंधरायां विश्वंभरावलये मघवा शक्र इवोवास वसति स्म । किंभूतः । निखिलस्य समस्तस्यापि नाकलोकस्य स्वर्गस्य साम्राज्यमाधिपत्यम् । 'सम्राट् तु शास्ति यो नृपान्' इति हैम्याम् । अतः सर्वेषामपि विमानाधिपतिना किनायकानामैश्वर्यमधिगतः प्राप्तोऽपि । 'अधिगतं विधिवद्यदपालयत्' इति रघुवंशे । 'अधिगतं प्राप्तम्' इति तद्वृत्तिः । पुनर्लोलुपतया अधिकाधिक संपदैश्वर्यस्पृहयालुतया समग्रं समस्तमपि मध्यमलोकं पातालदेवलोकयोरध उपरि च वर्तमानयोर्मध्येऽन्तराले वर्तिनं लोकं भुवनं मध्यमलोकं सकलसमुद्रमेखला मण्डलं भोक्तुं खभोगविषयं विधातुमीहमानो वाञ्छन्निवेति गर्भितोत्प्रेक्षा ॥ अथास्य दिग्विजयविधित्सया प्रस्थाने वैरिणामुत्पाताविर्भावः यात्रासु यस्य चतुरङ्गचमूप्रचारप्रोद्भूतधूलिपटलैः परितः प्रसत्रे । प्रस्थानमस्य दशदिग्विजयाय जाने यातैरितः कथयितुं हरितां महेन्द्रान् ॥ १४ ॥ यस्याकब्बरपातिसाहेर्यात्रासु परजनपदजिघृक्षया प्रस्थानेषु चत्वारि चतुः संख्याकान्यांनि साधकानि गजवाजिरथपदातिलक्षणा: प्रकाराः स्कन्धा यस्यास्तादृश्याश्ञ्चम्वाः
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy