________________
३९६
काव्यमाला।
उदित्वा कथयित्वा । प्रभोः पुर इत्यध्याहारः । पुनरित्य स्याप्यध्याहारः। प्रभुं सूरीन्द्र नत्वा प्रणम्य ॥ इति शासनदेवतागमनम् ॥
कलधौतावदातश्रीजिज्योत्स्नाविराजितः ।
कुर्वन्कुवलयोल्लासं विभुर्विधुरिवाभवत् ॥ २९ ॥ विभुः श्रीहीरविजयसूरिः विधुः सुधादीधितिरिवाभवत् जातः । किंभूतः । कलधौत काश्चनं तद्वदवदाता निर्मला पीता श्रीर्वपुःशोभा यस्य । 'विभ्राजते तव वपुः कनकाव-' दातम्' इति भक्तामरस्तोत्र। चन्द्रः किंभूतः । कलधौतं रजतं तद्वदुज्ज्वला मण्डललक्ष्मीर्यस्य । 'कलधौतं रूप्यहेनोः' इत्यनेकार्थः । पुनः किंभूतः । द्विजानां दशनानां ज्यो. स्नया कान्त्या विराजितः । पक्षे द्विजैश्चन्द्रपारिपार्श्वकैः सेवकविशेषैः । द्विजपतित्वाचन्द्रस्य । तथा ज्योत्स्नया चन्द्रिकया विराजितः शोभितः । पुनः किं कुर्वन् । कुवलयस्य भूमण्डलस्य प्रतिवोधदानादिना यशसा वा उल्लासमानन्दातिशयम् । पक्षे । कुवलयानां चन्द्रविकाशिकमलानामुत्पलानां विकाशं कुर्वन् सृजन् ॥
अश्रान्तानन्तपदवीलङ्घनैः श्रान्तवानिव । .
शशी शनैः शनैरस्ताचलचूलामथाश्रयत् ॥ ३० ॥ अथ देवतागमनानन्तरं शशी शीतकान्तिः शनैः शनैर्मन्दं मन्दमस्ताचलस्य चर. मादेः प्रतीचीपर्वतस्य चूलां शिखामाश्रयद्भजते स्म । उत्प्रेक्ष्यते-अश्रान्तं विगतविश्रामं यथा स्यात्तथा निरन्तरं विद्यते अन्तोऽवसानं यस्याः सा अनन्ता अपरिमिता प्र. माणातीता या पदवी मार्गः गगनाङ्गणं तस्या लङ्घनैरतिक्रमणैः श्रान्तवान् श्रमं प्राप्तवानिव । यः परिश्रमं प्राप्तः स कुत्रचन विश्रामार्थमवतिष्ठते ॥
गर्भाश्मगर्भचन्द्राश्मकल्पितोत्तंसिकेव सा ।
अस्ताचलश्री ति स्म मौलिलीलायितेन्दुना ॥ ३१ ॥ मौलौ अर्थात् पश्चिमाचलस्य शिरःशिखरे लीलया खविचरणविलासेन न तु परस्य कस्यापि बलेन आकर्षणादिबलात्कारेणाचरितमाचरणं यस्य स लीलाचरितस्तादृशेने. न्दुना चन्द्रेण कृत्वा सा प्रसिद्धा चन्द्रस्योदयदायिनी द्वितीयायां प्रथममस्ताचलादेवोदयत्वात् । अथ वा सूर्याचन्द्रमसयोरस्तकारकत्वेन ख्यातिमती अस्ताचलस्य पश्चिमध. थिवीधरस्य श्रीलक्ष्मी ति स्म । उत्प्रेक्ष्यते-गर्भे मध्यप्रदेशे अश्मगर्भा मरकतमणयो यस्याः । 'मरकतं त्वश्मगर्भम्' इति हैम्याम् । तादृशी । चन्द्राश्मभिश्चन्द्रकान्तरत्नैः । 'चन्द्रकान्तश्चन्द्रमणिश्चान्द्रचन्द्रोपलश्च सः' इति हैम्याम् । यथा चन्द्रोपलस्तथा चन्दाश्मा। कल्पिता रचिता उत्तंसिका शेखरो यस्यास्तादृग्विधेव । 'विदर्भसुभ्रवणावतं. सिका' इति नैषधे । अवतंसिका तथैवोत्तंसिकापि ॥