________________
९ सर्गः]
हीरसौभाग्यम् ।
वाचं वाचंयमश्रेणीरोहिणीरमणस्ततः । तत्पुरो ग्राहयामास सुधाया औरसीमिव ॥ ८ ॥
३९१
ततो देववचनानन्तरं वाचंयमानां श्रमणानां श्रेणीषु धोरणीषु रोहणीरमणः विभावरीवल्लभः सूरीन्द्रः तत्पुरो जिनशासन देवतापुरस्तादग्रे वाचं वाणीं ग्राहयामास ज. ग्राह । उवाचेत्यर्थः । उत्प्रेक्ष्यते - सुधाया अमृतस्य औरसीं सुजातां केवलपितृभात्रोरुत्पन्नामिव नन्दिनीमिव । 'सुजातस्त्वौर सौरस्यौ' । पुत्री त्वौरसी । 'उदधुरेष व्यस जन्निजौरसीम्' इति नैषधे ॥
अदृग्गोचरपारस्य वाङ्मयस्याम्बुधेरिव ।
यन्मनीषा सुखं देवि तरीव पारदृश्वरी ॥ ९ ॥
विनेया विनयावासाः कतिचित्ते ममासते । शौण्डीरिमधरा गन्धसिन्धुरा इव बन्धुराः ॥ १० ॥
हे देवि, मम ते खगुणैर्विख्यातिभाजः कतिचित्कियत्संख्याका विनेयाः शिष्या आसते सन्ति । 'आसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपा:' इति नैषधे । तथा ‘सत्तायामस्त्यास्ते' इति क्रियाकलापे । किंभूताः । विनयावासाः विनयकुलमन्दिराणि । पुनः किंभूताः । बन्धुराः कौलीन्यादिगुणोपेताः । पुनः किंभूताः । शौण्डीरिमाणं कर्म संपन्न सेनां प्रतिशौर्य धरन्तीति । के इव । गन्धसिन्धुरा इव । यथा गन्धहस्तिनः प्रत्यर्थिपृतना पराभवनपटवो भवन्ति । ते के । येषां विनेयानां मनीषा प्रतिभा • सुखं यथा स्यात्तथा अदृग्गोचरो नयनविषयो न चक्षुप्रयः पारं परतीरं यस्य । पार. शब्द: पुंनपुंसकलिङ्गयोः । तादृशस्याम्बुधेरिव समुद्रस्येव वाङ्मयस्य सिद्धान्तस्य सर्वशास्त्रस्य वा तरीव नौरिव पारदृश्वरी पारं दृष्टवतीति पारगामिनी । 'वनोरच्' । 'वनन्तात्त्रियामीप्प्रत्ययो भवति रश्चान्तादेशः' इति प्रक्रियासूत्रेण ईप्प्रत्ययः, नकारस्य रकारः । पारदृश्वरी ॥ युग्मम् ॥
ashvi विनेयानां कतमः कमलानने ।
भास्वान्विष्णोरिव पदे ममास्त्यभ्युदयंगमी ॥ ११ ॥
हे कमलानने पद्मवदने शासनदेवि, अमीषां विनेयानां शिष्याणां मध्ये कतमः शिष्यः मम पदे पट्टे अभ्युदयं पट्टचारितां गमिष्यत्यभ्युदयंगमी अस्ति । अभ्युदयं जगद्विख्यात तां गमिष्यतीत्येवंशीलो गमी । 'भविष्यति गम्यादय:' । 'गम्यादीनामुपसंख्यानणिनि वा वृद्धिर्यति' । यदुक्तं नैषधे- ' साधोरपि खः खलु गामिनाधोगमी स तु स्वर्गमितः प्रयाणे' इति । साधनिका तु प्रागुक्ता विकल्पेन वृद्धिर्गामी गमी । क इव । भास्वानिव । यथा भास्करो विष्पे: पदे गगने अभ्युदयं गच्छति ॥ इति गुरोर्देवी प्रश्नः ॥