SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ . ( सर्गः] . हीरसौभाग्यम् । ध्वनितं सारखरो विधीयते स कृतम् । एवं चेन्न तर्हि नितं देवीनिखनस्ताभ्यः परवादिनीभ्यः कुतोऽतिरिच्यते कस्मात्कारणादधिकीभवति ॥ यद्वाक्पुरस्तादिव पाण्डुराभिर्दिलीयते स्म त्रपया सुधाभिः । सितोपलाभिश्च तपखिनीभिस्तृणं किमादाय मुखेन तस्थे ॥ ११९ ॥ यस्या देवताचा वाचां माधुर्याद्वैततया निजनिर्जित्वरीणां वाणीनां पुरस्तादग्रे त्रपया लजया कृत्वा पाण्डुराभिर्धवलीभूताभिर्दुःखातिरेकात्पाण्डूभूय सुधाभिरमृतरसैः । उत्प्रे. क्ष्यते-विलीयते स्म विलीनमिव गलित्वा गतमिव द्रवीभावः प्रापेव । च पुनर्यस्या वाचा पुरः तपखिनीभिर्वराकीभिः दुर्बलाभिः पाण्डुराभिरपि सितोपलाभिः शर्कराभिः तपखितया । उत्प्रेक्ष्यते-मुखेन वक्रेण कृत्वा तृणमादाय गृहीत्वा किं तस्थे स्थितमिव । यद्धाचा जिता पाण्डुरीभूय अमृतं विलीय गतं सिता मुखे तृणं गृहीत्वा स्थितेति भावः ॥ इति वाणी ॥ खप्रीतिरत्योरिदमोष्ठधानोः सापत्न्यतः संस्थितिवासभाजोः । स्मरस्तदर्धे विवभाज सीमां रेखामिषात्कि विनिनीषुराजिम् ॥ १२० ॥ स्मरः कन्दर्पस्तदर्धे तयोर्निजनितम्बिन्योर्निवासस्थानकीभूताधारस्यार्धे तुल्योभय. पार्श्वयोर्मध्ये। उत्प्रेक्ष्यते-रेखाया अवरमध्यगतरेखाकारस्य मिषात्कपटात्सीमामवधिभूतभूमी विवभाज विभागीकृतवानिव विभागीकृत्य द्वयोर्दत्तवानिव वा। स्मरः किं कर्तुमिच्छुः । विनिनीषुः व्यपनेतुमिच्छुर्निवारयितुं काहुन् । काम् । आजि परस्परकलहम् । कयोः। खस्यात्मनः प्रीतिरतिनान्योः पन्योः । किंभूतयोः । इदमस्या देव्या ओष्ठो दशनच्छद एव धाम मन्दिर ययोः । अत एवः पुनः किंभूतयोः । समान एव पतिर्भर्ता ययोस्ते सपल्यौ संपन्योर्भावः सापत्यं सापन्यतः सपत्नीभावतः कृतसपत्नीकत्वादित्यर्थः । सं. स्थितौ परस्परं सम्यस्थितौ वसतिविषये विशेषेण वादं कलिम् इदं स्थानकं मदीयमिदं स्थानकं मदीयमिति क्लेशं भजतस्तयोः । खस्वस्थानाधिकस्थान लिप्सया मिथो वि. वादकारिण्योरित्यर्थः ॥ इत्यधरोष्ठमध्यरेखा ॥ तत्साधु मन्ये मलयानिलेन यदेतदीयस्वसितीबभूवे । सर्वर्तुपुष्पोद्भवसौरभस्य सौभाग्यमाप्नोति किमन्यथासौ ॥ १२१ ॥ तत्साधु मन्ये अहं कविस्तत्साधु समीचीनं मन्ये हृदि मानयामि वेद्मि यन्मलयानिलेन मलयद्रुमपरिमलसुरभीकृतमलयशैलप्रसरत्पवनेन दाक्षिणात्यवायुना एतस्या इदमेतदीयं देवतासंवन्धि यत्स्व सितं श्वासः तद्वभूवे जातम् । 'श्वासस्तु श्वसितम्' इति हैम्याम्। देवीश्वासरूपेण संजज्ञे अन्यथा तद्भवनव्यतिरेकेण असौ मलयानिलः सर्वे वा ते ऋत. वश्व सर्वर्तवः हिम-शिशिर-वसन्त-ग्रीष्म-वर्षा-शरल्लक्षणा: षडपि ऋतवः समयविशेषास्तेषां पुष्पाणि कुसुमानि तेभ्यः उद्भवेभ्य उद्भव उत्पत्तिर्यस्य तादृशं यत्सौरभं सुरभिता आमोदो ना तत्य सौभाग्यं सुभगतां माहात्म्यं वा किं कथं केन प्रकारेणा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy