________________
८ सर्गः]
हीरसौभाग्यम् । यामि । तत्तुलनाविलासं तस्या देवीरसज्ञायास्तुलनां सादृश्यं तस्य विलास वैचित्र्यं लीला वा। 'असकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः' इति चम्पूकथायाम् । 'निरन्तरसु. धारसाविष्कारिणो वाग्विलासा वचनवैचित्र्ये' इति तटिप्पन(ण)कम् । प्रार्थयते याचतीव । ण्यन्तत्वाद्विकर्मत्वम् । पितामहं किं कुर्वन्तम् । खस्यात्मनः खजन्मकर्तृत्वेन तातो जनकोऽरविन्दः पद्मः स एव तत्र वा गेहं मन्दिरं तत्र निवसन्तं निवास कुर्वन्तम् । एतावता संबन्धो जातः संवन्धे च प्रार्थना फलेग्रहिः स्यादिति किं कृत्वा प्रार्थयते । यस्या देवताया जिह्वां रसज्ञां जयिनी निजजयनशीलां निभाल्य निरीक्ष्य ॥
खं निष्ठितं नित्यमुपर्वपानात्पीयूषमन्विष्य सितत्विषेव ।
प्रैषीदमानापयितुं रसज्ञासुधादोऽस्या द्विजराजिराभात् ॥ ११३ ॥ • अस्या देवताया द्विजराजिर्दन्तपक्तिराभाद्बभौ । उत्प्रेक्ष्यते-सितत्विषा चन्द्रमसा इदं पीयूषमानापयितुमात्मार्थे आनयनार्थमस्या देव्या रसज्ञा जिला सैव सुधाया अमृतरसस्य हदो द्रवस्वत्र द्विजराजिस्तदधिपतित्वात्खभृत्यवीभूता द्विजपतिर्दशनावलीरूपा ब्राह्मणमण्डली प्रैषि प्रहितेव । किं कृत्वा । नित्यमहोरात्रं सुपर्वणां देवानां सुधाशनत्वात्पानात्पानवशतः निष्ठितं क्षीणं खल्पावशिष्टं वा पीयूषं सुधारसमन्विष्य समीक्ष्य ।।
जाने यदास्यं सरसीरुहाया विजम्भिजिहारुणपद्मपत्रा। श्रेणीभवन्तः पुलिनावतंसा हंसद्विजाः स्युः कथमन्यथास्याम् ॥११४॥ यदास्यं देवीवदनम् अहमेवं जाने वेद्मि । सुधाया अमृतरसस्य सरसी महत्सरोवर. मिव । किंभूतम्। विजृम्भि विकसनशीलं जिला देवीरसना सैवारुणपद्मस्य रककमलस्य पञ्चं दलं यस्यां सा । एवं चेन्न तर्हि अन्यथा सुधासरसीमन्तरेण अस्यां सरस्यां पुलि. नस्य जलोज्झितप्रदेशस्य तटस्येत्यर्थः । 'पुलिनं तनलोज्झितम्' इति हैम्याम् । अवतंसाः शेखरीभूतास्तथा श्रेणीभवन्तः पलया जायभानाः सन्तस्तिष्ठन्तः हंसद्विजाः सितच्छदविहंगमाः हंसवदुज्ज्वला द्विजा दशनाः कथं केन प्रकारेण स्युर्भवेयुः ॥ - वर्षिष्णुदेवीहृदयानुरागवारांनिधेविंद्रुमकन्दलीव । · कण्ठत्रिरेखेन मुखे गृहीता पुपोष भूषां रसनादसीया ॥ ११५ ॥
भदसीया अमुष्या इयमदसीया शासनदेवतासंबन्धिनी रसना जिला भूषां शोमां पुपोष पुष्णाति स्म । शुशुभे इत्यर्थः । उत्प्रेक्ष्यते-कण्ठ एव त्रिरेखः तिस्रो रेखा यति कम्बुनोपमेयत्वात्कम्बुरेव तेन मुखे खवदने गृहीता उपात्ता वर्धिष्णुर्वर्धनशीलो यो देव्या हृदये मनसि । हृदयं मनो वक्षश्च । अनुरागः खप्रियायुपरि अत्यन्तानुरक्तता वर्धमानो राग: स एव वारांनिधिः समुद्रः तस्य । तदुत्पन्नस्येत्यर्थः । विद्रुमस्य प्रवालस्य कन्दली नवाकर इव । 'कन्दली रूपरागेऽपि कलापे च नवाङ्करे । मृगजातिप्रभेदे च' इति लिङ्गानुशासनावचूनों विद्रुमाणां शङ्खानां च समुद्रे सद्भावात्तद्रहणमुचितमेवेति ॥ इति रसज्ञा ॥