________________
३५२
काव्यमाला। सर्वाङ्गसृष्टि सृजतस्तदीयां धातुर्विलग्नस्य विधानकाले । प्राप्तः क्षयं सारदलस्य कोशोऽल्पीयस्ततोऽभूदिव मध्यमस्याः ॥५५॥
तस्या इयं तदीया सर्वेषां समग्राणामङ्गानामवयवानां सृष्टिं रचनां निर्माणं सृजतः कुर्वतो धातुर्जगत्कर्तुविलमस्यार्थाद्देवीमध्यस्य विधानकाले प्रणयनसमये सारदलस्य प्रकृ. ष्टनिर्माणयोग्यपरमाणुपिण्डस्य कोशो भाण्डागारः क्षयं क्षीणतां स्तोकभावं प्राप्तः। उत्प्रेक्ष्यते-ततस्तस्मात्कारणादस्यास्त्रिदश्या मध्यमल्पीयः अतिशयेनाल्पं कृशतमम--. भूदिव जातम् ॥ इति मध्यम् ॥ यदङ्गयष्टीबहलीभविष्णुरोचिष्णुरोचिश्चयनिर्झरिण्याः । प्रादुर्भवन्ती त्रिवलीविलासिकल्लोलमालेव विभाति मध्ये ॥ १६॥ मध्ये अर्थाद्देव्या उदरे विलग्ने त्रिवली त्वक्संकोचलक्षणा त्रित्वसंख्यायुक्ता वली त्रिव-. ली। यथा जिनप्रभसूरिकृतऋषभनम्रस्तवे-'त्रिजगतीं पुनती कविसेविता' इति । वि. भाति शोभते । 'मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला' इति कुमारसंभवे । 'मध्येनोदरेण' इति तद्वत्तिः । तथा 'त्रयीमयीभूतंबलीविभङ्गा,' पुनः 'उदरं परि. माति मुष्टिना कुतुकी कोऽपि दमखसुः किमु । धृततच्चतुरङ्गुलीव यद्भलिभि ति सहे. मकाश्चिभिः ॥' इति नैषधै । उदरे वलित्रिकं भवेद्भाग्यवद्योषिताम् । उत्प्रेक्ष्यतेयदङ्गयष्टया यस्या देव्या अङ्गयष्टयास्तनूलतायाः । 'अध्याहारः स्मरहरशिरश्चन्द्र. शेषस्य शेषस्याहर्भूयः फणसमुचितः काययष्टीनिकायः' इति नैषधे । तत्र बहलीभवि. ष्णुनीरन्ध्रभवनशीलः तथा रोचिष्णुः शोभनशीलो यो रोचिश्चयः कान्तिनिकरः स एव निर्झरिणी नदी तस्यां प्रादुर्भवन्ती प्रकटीसंजायमाना विलसति परस्परमाश्लि. ज्यतीत्येवशीला कल्लोलमाला तरङ्गमण्डलीव । अथवा प्रकठीभवन्ती लोचनगोचरत्वमागच्छन्ती तिस्रश्च ता वल्यश्च त्रिवल्यस्त्रिवल्य एव विलसनशीला विराजमानस्वभावा लहरी राजीव ॥
चण्डी सपत्नी प्रबला ममास्ते ज्यायानजो वेदजडः पतिर्मे । भर्चा वियोगो हरिणा ममापि दुःखं जहीदं तिसृणामपीति ॥ १७ ॥ वक्तुं जगत्कल्पितकल्पवल्लि जहोर्विधेश्वांशुमतः सुताभिः । मध्ये समेत्य त्रिवलीच्छलेन प्रसादपात्रीक्रियते किमेषा ॥ १८ ॥ सुताशब्दः त्रिषु स्थानेषु प्रत्येकं योजनीयः । जहोर्नारायणस्य सुता गङ्गा । 'तीर्ये तोयव्यतिकरभवे जहुकन्यासरय्वोः' इति रघौ । पुनर्विधेब्रह्मणः सुता सरखती। 'ब्रह्मपुत्री सरखती' इति हैम्याम् । तथा 'दशमनामब्रह्मणः सुता' इति भारवीस्तोत्रे। च पुनरंशुमतः सूर्यस्य । 'स्यत्वेंशुपतिरंशुमान्' इति हैम्याम् । सुता पुत्री यमुना । 'कृतान्तजनकः प्रद्योतनस्तापनः' इति हेमचन्द्रोक्तिः । तथा 'अलभत शमनखसुः