________________
३३६
काव्यमाला। .
__ सा ध्यानगोचरीकृता शासनदेवता श्रीजिनमताधिष्टायिका निर्जरी ज्ञानदृशा निजावधिज्ञानलोचनेन ध्यानस्थितं प्रणिधानोपविष्टं हीरविजयनामानं वशीन्द्रं जितेन्द्रियाणामधिराज सूरि निपीय सादरमवलोक्य चित्ते खमानसे मुदमानन्दं दधार धत्ते स्म । प्रमोदं प्रापेत्यर्थः । उत्प्रेक्ष्यते-अमृतस्य सुधायाः कुण्डे परितो निबद्धानेकसोपानपटलप्रवणे जलाशये अर्थादमृतकुण्डमध्ये प्रणीतं कृतं लीलया खैरक्रीडया । नतु तापमलापनोदाय देवानां तापाद्यभावात् । आप्लवनं स्नानं यया तादृशीव । 'मानं सवनमाप्लवः' इति हैम्याम् । आप्लवनमाप्लवः इति वाक्यमेवानीतमस्तीति ॥
अथाविरासीद्वशिशीतकान्तेः पुरः स्फुरज्जैनमताधिदेवी। प्रसादितोपासनया शमश्रीरिवेयमङ्गीकृतकाययष्टिः॥८॥ अथ ध्यानस्थिरस्थायुकसूरीन्द्रदर्शनानन्तरं स्फुरन्ती वपुराभरणमणिदीप्तिभिदीप्यमाना जिनानां तीर्थकृताम् । अथ वा जिनस्य महावीरस्येदं जैनम् । तादृशं मतं शासनं तस्याधिदेवी अधिष्ठात्री देवता वशी जितेन्द्रियग्रामो मुनिजनस्तन्मध्ये शीतकान्तेश्वन्द्रस्यैतावता सूरीन्द्रस्य पुरोऽग्रे आविरासीत्प्रकटीभूता । उत्प्रेक्ष्यते--उपासनया निर. म्तरसेवनया कृत्वा प्रसादिता प्रसादयुक्ता विहिता । प्रसन्नीकृतेत्यर्थः । अतएवाङ्गीकृता उपात्ता गृहीता काययष्टिस्तनूलता यया तादृशी शमश्रीर्मूर्तिमती उपलक्ष्मीरिव प्रभोः पुरः प्रादुर्भूता ॥
कलामिवेन्दोर्जगते द्वितीयां प्राप्तां सुरी दर्शयितुं खमस्मै । निद्रां दृशा किंचन चुम्बतांपि प्रेक्ष्यामुनाजायत जाग्रतेव ॥९॥
अमुना सूरीन्द्रेण जाग्रतेव जागरणावस्थितेनेव निन्द्रारहितेनेव अजायत संजातम्। अमुना किं कुर्वता । किंचन किमपि उदरिकामत्रं दृशा नेत्रेण निद्रां प्रमीलां चुम्बता आश्रयतापि । किं कृत्वा प्रेक्ष्य व्यालोक्य । काम् । सुरी शासनदेवताम् । किंलक्षणाम् । अस्मै सूरीन्द्राय खमात्मानं दर्शयितुं दृग्गोचरीकारयितुं प्राप्तां पुरःसमागताम् । कामिव । द्वितीयां तिथिमिव । यथा इन्दोः सुधादीधितेः कलां षोडशांशम् ।अत्रार्थाबगस्थितिवशाच्च कलात्रयमयीं खेला जगते सकललोकाय दर्शयितुं प्राप्तांजनो जानाति ॥
प्रवाललक्ष्मीमिव कामितद्रोस्तध्यानसिद्धेः किमुताग्रदूती। प्रत्यक्षवत्प्रादुरभूत्पुरोऽस्य स्वप्नेऽपि सा सार्वमताधिदेवी ॥ १०॥ सा हीरविजयसूरिसूरिमन्त्रध्यानानुभावाभ्यागता सार्वस्य धीमचरमकृन्महावीरभग. वतो मतं शासनं तस्याधिदेवी अधिष्ठायिका निर्जरी। श्रीवीरशासनदेवता इत्यर्थः । खप्ने किंचिनिद्रावस्थायामपि प्रत्यक्षवबाप्रदवस्थास्थायुकचक्षुर्लक्ष्यवत् । अस्य सूरेः पु. रोऽप्रतः प्रादुरभूत्प्रकटीभवति स्म । उत्प्रेक्ष्यते-कामितद्रोरर्थात् हीरसूरेरभिलषित. शाखिनः प्रवाललक्ष्मीः पलवश्रीरिव । द्रुमाणां हि प्रथमं पल्लवाः प्रादुर्भवन्ति । तदुप.