SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। निशानने श्रीसुतमत्तकान्तैरत्युत्सवायोत्सुकभावभाग्भिः । दिग्वारसारङ्गविलोचनाभिः संध्यारुणश्रीरुदगारि रागः ॥ ३९ ॥ दिश एव वारसारङ्गविलोचना वारविलासिन्यः ताभिः संध्यायाः अरुणश्री रक्तिमश्रीः, स एव तद्रुप एव वा। उत्प्रेक्ष्यते-रागः खपति प्रत्यतिशाय्यनुराग: उदगारि उनीर्णः। प्रकटीकृत इत्यर्थः । किंभूताभिः । दिग्वारसारङ्गविलोचनाभिः निशानने यामिनीमुखे एव संध्यात एवारभ्य श्रीसुतेन कन्दर्पण कृत्वा मत्तैरुन्मदिष्णूभूतैरुन्मादिमिर्मदोद्धरः . कान्तैः स्वभर्तृभिः दिङ्नायकैः सार्धे रतः सुरतस्योत्सवाय विविधप्रकारकामक्रीडाविला. सार्थमुत्सुक उत्कण्ठितो यो भावश्चित्ताभिप्रायस्तमाशयं भजन्तीति तादृशीभिः ॥ खौवताभिप्रतिकर्मसज्जप्रसाधिका पाणिपयोरुहेभ्यः । निपातुकालक्तकपङ्कपङ्क्तिः संध्याभ्रिका व्योनि बभूवुषीव ॥ ४० ॥ खयौवतानां स्वर्गागनानामप्सरसां 'स्वःस्वर्गिवध्वप्सरसः' इति हैम्याम् । अङ्गीणां चरणानां प्रतिकर्म प्रसाधनं मण्डनादिकरणम् । 'मण्डनं पुनः प्रसाधनं प्रतिकर्म' इत्यापे हैम्याम् । तत्र प्रसाधने सजानां प्रवणानां पतिः श्रेणी सैव । उत्प्रेक्ष्यते-व्योनि आकाशे संध्यात्रिका संध्यासमयप्रादुर्भवदभ्रपटली बभूवुषी जातेव ।। अनीशी व्योममणेर्दिनश्रीचूडामणेः प्रेक्ष्य दशां खभर्तुः । दुःखेन ताम्बूलमहायि वक्रासंध्याभ्रदम्भादिव दिग्वधूभिः ॥४१॥ दिग्वधूभिर्दिगङ्गनाभिः दुःखेन चित्तोद्भूतातिखेदोदयेन संध्याकालीनाभ्राणां दम्भायाजात् । उत्प्रेक्ष्यते-वक्रान्निजवदनात्ताम्बूलं दशनचर्वितनागवल्लीदलचूर्णमहायि क्षिप्तमिव । किं कृत्वा। दिनश्रिया वासरलक्ष्म्याश्डामणे: शिरोमणेयॊममणेः सहस्रकिरणस्य अनीदृशी दुष्टामस्तलक्षणाम् । 'ईदृशीं च कथमाकलयित्री' इति नैषधे । दशामवस्था प्रेक्ष्य चक्षुर्लक्ष्यीकृत्य । किंभूतस्य भानोः । खभर्तुनिंजेश्वरस्य । "दिशो हरिद्भिहरितामिवेश्वरः' इति रघुवंशे । 'हरितामीश्वरः पतिः सूर्यः' इति तद्वृत्तिः ॥ पत्यौ गवां कापि गतेऽस्य बन्धून्पद्मान्रथाङ्गारिपुवत्प्रदोषः । क्लिश्नाति कोपाकिमतो दिगीशैः संध्याभ्रदम्भादरुणीबभूवे ॥४२॥ दिगीशैदिक्पालकैः । उत्प्रेक्ष्यते-अत एतत्कारणात् उत्पन्नात् प्रकटीभूतात्कोपाकोधात्संध्याभ्राणां दम्भाब्याजास्किमरुणीवभूवे रक्तैर्जातम् । कारणं प्रतिपादयति-गवां भूमीना किरणानां च पत्यौ खामिनि भास्करे राजनि च क्वापि कुत्रापि स्थाने गते प्रयाते सति अस्य बन्धून्मित्राणि पद्मान् कमलान् । द्वावपि पुनपुंसकलिङ्गो । रथाङ्गांश्चऋवाकान् संकोचवियोगादिप्रकारै रिपुवद्वैरिवत्प्रदोषो यामिनीमुखं क्लिश्नाति पीडयति । यथा कश्चित्प्रत्यर्थी पृथ्वीनाथे कार्यवैयध्यात्वचन गते सति तत्खजनजनान् संतापयति ॥ इति संध्यारायः॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy