________________
तर्गः] हीरसौभाग्यम् ।
३११ तदुःखातिरेकादधौ मजन्त्या ब्रूडन्त्याः पतन्या वा दिनलक्ष्म्या वासरनिया भालं ललाटमिव ॥
भानोर्बभौ मण्डलखण्डमब्धौ गन्तुः पुरारेमिलितुं मुरारिम् ।
मृगाङ्कलेखेव सरोषचण्डीसालक्तपादाहतिशोणितश्रीः ॥ २२ ॥ अब्धौ समुद्रे भानोः सूर्यस्य मण्डलस्य बिम्बस्य खण्डं शकलम् । बिम्बचतुर्थाशमात्रमित्यर्थः । बभौ शोभते स्म । उत्प्रेक्ष्यते-मुरारि नारायणं मिलितुं गन्तुर्गच्छतीति गन्ता तस्य पुरारेः शंभोर्मुगाङ्गलेखेव शिरःशेखरपीयूषमयूखकलेव शिरःशशिकलेव । किंभूता। सरोषा कुतश्चित्कारणात्कोपकलिता या चण्डी अत्यन्तकोपना कामिनी पार्वती च । 'चण्डस्त्वत्यन्तकोपनः' इति हैमीवचनात् । स्त्री चेच्चण्डी । 'दुर्गा चण्डी सिंहयाना मृडानी' इत्यपि हैम्यां पार्वतीनामानि । तस्याः सालक्तकेन सह यावकरसेन वर्तते यस्तादृशः पादश्चरणस्तस्याहत्या शिरसि प्रहारेण शोणत्वं संजातमस्यामिति शोणिता रक्तीभूता श्रीर्वपुर्लक्ष्मीर्यस्याः । कथंचित्सुरतकलहे कुपितां पार्वतीमनुनेतुं पादपतितस्य शंभोः शिरसि कोपात्पादप्रहारः प्रदत्तः, तदवसरे चरणाालक्तकरसे लग्ने रक्ता जातेत्यर्थः ॥
द्वीपे परस्मिन्नितरोऽस्ति कश्चिदस्य व्रतीन्द्रस्य वशी सदृक्षः।
दिदृक्षयान्तः कुतुकादितीव पतिस्त्विषां याति परत्र खण्डे ॥२३॥ त्विषां पतिर्भानुमान्परत्र अन्यस्मिन् खण्डे द्वीपे प्रदेशे वा याति । उत्प्रेक्ष्यतेअन्तश्चेतोमध्ये कुतुकात्कौतूहलादित्यमुना प्रकारेण दिदृक्षया द्रष्टुमिच्छयेव । इति किम् । यदन्यस्मिन्नपरस्मिन्द्वीपेऽस्य हीरविजयनान्नो व्रतीन्द्रस्य सूरेः सदृक्षस्तुल्य इतो. ऽन्यः कश्चिद्वशी जितेन्द्रिय आस्ते न वेति ॥
अनक्षिलक्ष्यीभवति स्म भाखान्निजाङ्गनायामनुरागिभावात् ।
क्वचिन्निगूढं वरुणेन रोषादिवैष पाशेन नियन्य मुक्तः ॥ २४ ॥ भाखान्मार्तण्डः अक्ष्णोर्नयनयोर्लक्ष्यो दृश्य: अक्षिलक्ष्यः दृग्गोचरो नाक्षिलक्ष्योऽनक्षिलक्ष्यः स भवति स्मेति अनक्षिलक्ष्यीभवति स्म । अदृश्यो जातः । अस्तं गत इत्यर्थः । उत्प्रेक्ष्यते-निजाङ्गनायां पश्चिमदिमृगलोचनायाम् । 'वरुणगृहिणीमाशामासादयन्तममुं रुची' इति नैषधे । अनुराग: प्रेमातिरेकोऽस्त्यस्मिन्वा दृग्भावश्चित्ताभिप्रायो यस्य अनुरक्तत्वेन वा रोषात्कोपोदयात्क्वचित्कुत्रापि प्रदेशे वरुणेन प्रतीचीपतिना पाशेन बन्धनप्रन्थिना नियन्य बद्धवा निगूढं गुप्तस्थाने मुक्तः स्थापितो रक्षित इव ॥ इति सूर्यास्तवर्णनम् ॥
आवासविस्मेरमहीरुहाणां सायं शिखाः शिश्रियिरे शकुन्ताः । विश्वोपकर्ता व गतः सगोत्रः खगस्तदीक्षार्थमिवास्थुरुच्चैः ॥२६॥