________________
६ सर्गः)
हीरसौभाग्यम् । तस्य समयः युवराजपदाभिषेचनप्रस्तावमिव । सूरिः किं कुर्वन् । क्रीडन् । केली निर्मिमाणः । कुत्र । शान्तरसो नवमोपशम रस इत्याहा नाम यस्य तादृशे मानसनाम्नि सरोजन्मनां पद्मानामाकरे । 'पद्माकरस्तडागः स्यात्' इति हैमीवचनात् । मानससरोवर इत्यर्थः । किंवत् । हंसवत् । यथा हंसो वर्षागमं विलोक्य मानससरसि क्रीडन् तिष्ठति ॥
यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः
पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तद्ब्राह्मीक्रमसेविदेवविमलव्यावणिते हीरयु
क्सौभाग्याभिधहीरसूरिचरिते षष्ठोऽत्र सगांऽभवत् ॥ १९५ ॥ अत्र हीरविजयसूरिचरित्रे हीरसौभाग्यनान्नि महाकाव्ये षण्णां संख्यापूरणः षष्ठः सोऽधिकारः अभवत्संजातः । ।
इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभा. ग्यकाव्यवृत्ती हीरहर्षगणेदक्षिणदिग्गमनाद्वजसमीपपठनमेदपाटमण्डलस्थगुरुपार्श्वगमनपण्डितवाचकपदप्रदानमरुदेशशिवपुरीसंघाग्रहवशाचार्यपदप्रस्थापनाणहिल्लपत्तननन्दिभवनविजयसेनसूरिजन्मदीक्षादिकथनडीसापुरचतुर्मासागमनवर्णनो नाम षष्टः सर्गः ॥
..
सप्तमः सर्गः। सूरीन्दुरानन्दयति स्म तस्मिन्पुरे समग्रानपि नागरान्सः ।
पचेलिमः प्राक्तनपुण्यपुञ्जः प्रादुर्भवन्मूर्त इवैष तेषाम् ॥ १ ॥ स श्रीहीरविजयसूरिमुधाकरः तस्मिन् डीसानानि पुरे समप्रान् सर्वानपि नागरा. पौरलोकान् आनन्दयति न्म प्रमोदमुत्यादयामास । उत्प्रेक्ष्यते-तेषां डीसापुरपौरा. णामेष चक्षुःप्रत्यक्षलक्ष्यः मूर्तस्तनुमान् पचोलेमः परिपाकं प्राप्तः प्राक्तनः प्राचीनज. न्मोपार्जितः पुण्यपुजः सुकृतसमूह इव ॥
मिलठ्ठलाकाम्बरमुद्वहन्ती लीलागतोद्वेजितराजहंसा । श्यामातिनम्रा च पयोधरोद्यद्धाराभिरामा पिहिताननेन्दुः ॥ २ ॥ सुरायुधभ्रूलतिकात्मयोनिमुज्जीवयन्तीव तडिद्विलासा । मुदे तदानीमजनिष्ट यूनां प्रावृण्नवोढा वरवणिनीव ॥ ३ ॥