________________
२९४
काव्यमाला ।
कदाप्यदर्शि तत्पत्न्या स्वप्ने सुखशयानया ।
उत्सङ्गसंगतः सिंहः श्रेयोराशिरिवाङ्गवान् ॥ १६० ।। कदापि कस्मिन्नपि निशासमये सुखेनाधिव्याधिरहितत्वेन शयानया सुब्वचा किंचि. निद्रायमाणया तत्पत्न्या कमाकान्तया कोडिमदेव्या स्वप्ने निद्रावस्थायामुत्सङ्गे निजकोडे संगतः स्थायुकः सिंहः केसरी अदर्शि दृष्टः । उत्प्रेक्ष्यते-अगवान्मूर्तिमान् श्रेयोराशिः पुण्यपुञ्ज इव ॥
मृणालधवलान्स्कन्धे बिभ्रद्वन्धुरकेसरान् ।
शिखरे शिखरी शंभोः शारदीनानिवाम्बुदान् ॥ १६१ ॥ .. सिंहः किं कुर्वन् । स्कन्धे भुजशिरसि मृणालं कमलनालं तद्वद्धवलानुज्ज्वलान् , तथा बन्धुरान्मनोज्ञान् केसरान् स्कन्धोद्गतरोमाणि बिभ्रत् धारयन् । क इव । शिखरी यथा शंभोभूधरः कैलासः शिखरे खशृङ्गे शारदीनान् शरत्कालसंबन्धिनः निःशेषेण वर्षणेन विशदीभूतान् अम्बुदान् मेघान् बिभर्ति । 'अन्ये ते अलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ते भ्रातश्चातक किं वृथात्र रटितैः खिन्नोऽसि विश्रम्यताम् । मेघः शारद एष काशधवल: पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशमपां नो विन्दुमप्युज्झति ॥' इति चातकाष्टके सूक्ते शारदमेघे धवलिमा ॥
किमभ्यर्थयमानानामुच्छेत्तुं दौस्थ्यमर्थिनाम् ।
कुम्भिकुम्भभिदालग्ना मुक्ता बिभ्रन्नखान्तरे ।, १६२ ॥ पुनः किं कुर्वन् । नखानां कामाङ्कुशानानन्तरे मध्ये अर्थानखाग्रेषु कुम्भिनां भद्रजातिभवानां हस्तिनां कुम्भानां शिरःपिण्डानाम्। 'कुम्भौ तु शिरसः पिण्डौ' इति हैम्याम् । मस्तकानां भिदा विदारणं द्विधाकरणं तदवसरे विलग्नानां नखाग्राणामतितीक्ष्णत्वे भिदा समये लगित्वा स्थिता मुक्ता मौक्तिकानि बिभ्रद्दधत् । उत्प्रेक्ष्यते-अभ्यर्थयमानानां याचनां कुर्वाणानामर्थिनां याचकानां दौस्थ्यं दारिद्यमुच्छेत्तुं मूलानिहन्तुं किं धनान्यी. कर्तुमिव ॥
जृम्भणादाननं काशप्रतीकाशो विकाशयन् ।
मत्तस्तम्बेरमीकान्तकवलीकृतये किमु ॥ १६३ ॥ पुनः किं कुर्वन् ।जम्भणात् जम्माकरणात् आननं निजमुखं विकाशयन्विकस्वरं कु. ईन् । प्रसारयन्नित्यर्थः । किंभूतः । काशाः प्रतीता ईपिकास्तेषां प्रतीकाशः श्वैत्येन तत्सं. निभः । 'विकसत्कासचामरः' इति रघुवंशे । उत्प्रेक्ष्यते-मत्ता मदोत्कटा ये स्तम्बे. रमीकान्ताः करिणः तेषां कवलीकृतये गण्डोलीकरणार्थ किमु । भक्षणार्थमिवेत्यर्थः । आदितश्चतुर्मिः कुलकम् ॥ इति सिंहखप्नः ॥