SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २८६ काव्यमाला। विशारदसूरिदोषहक्' इति हैम्यां विद्वन्नाम । तथा । 'वाचो वाच्यविवेकविक्लवधियामीदग्विधा मादृशां लप्स्यन्ते क्व किलावकाशमथवा सर्वसहाः सूरयः' इति चम्कथायामपि । अथवेति स्मरणगर्ने पक्षान्तरे वा सूरयो विद्वांसः सर्वसहाः । मादृशामनतिप्रकृष्टा अपि वाचः सहिष्यन्ते हृद्यवधारयिष्यति ज्ञातृत्वादिति तहिप्पनके ॥ अभजन्त यतिव्रजा विभुं विहगाः स्मेरमिवावनीरुहम् । पृणति स्म स तान्पुनर्महोदयसस्यं स प्रदिशंस्तानिव ।। १३० ॥ . यतिव्रजास्तपागणश्रमणसमूहा विभुं हीरविजयसूरिमभजन्त सेवन्ते स्म । के इव । विहंगा इव । यथा पक्षिण: स्मेरं विकसितमवनीरुहं वृक्षं सेवन्ते । पुनः स रिस्तान् मुनिमण्डलान् पृणति स्म प्रीणाति स्म । किं कुर्वन् सः । महोदयो मोक्षो महानुदयो वा स एव सस्यं फलं प्रदिशन् प्रयच्छन् ददानः । क इव-। स इव । यथा स स्मेरावनी. रुहः फलं खसस्यं विश्राणयन् विहगान् प्रीणाति । 'प्रीणाति प्रीणयति च पृणतीति' प्रीणनार्थाः स्युः' इति क्रियाकलापे ॥ इति हीरविजयसूरेस्तपागच्छसाम्राज्यप्राप्तिः ॥ . कुनयान्नयता विनम्रतां जयिनेव प्रतिगर्नतोऽमुना । दधताधरितः क्षमा ह्रिया किमु पातालमहीश्वरोऽविशत् ॥ १३१॥ क्षमामतिशायिनी शान्ति उपशान्तवामित्यर्थः दधता धारयता अमुना सूरिणा अ. धरित: हीनीकृतो धिकृतः सन् अहीश्वरः क्षमां पृथिवीं धरतीति तादृशः शेषनागः । उत्प्रेक्ष्यते-हिया लजया किमु पातालं रसातलमविशत् प्रविष्ट इव । 'क्षमा क्षितिक्षान्त्योः ' इत्यनेकार्थः । अमुना किं कुर्वता । [प्रतिगर्जतो वैतण्डिकान्] कुनयान् कुपाक्षिकान् शाक्यादीन् विनम्रतां प्रणमनशीलतां नयता प्रापयता । केनेव । जयि. नेव । यथा विजयकारिणा नृपतिना प्रतिगर्जन्तः स्पर्द्धिनः पार्थिवा विनम्रतां नीयन्ते। 'सुहृदयो हृदयः प्रतिगर्जताम्' इति रघुवंशे ॥ परिशीलितशीललीलया तुलयञ्श्रीसकडालनन्दनम् । स गभीरतयेव सागरं गुणमाणिक्यनिधिः पराभवत् ॥ १३२ ॥ गुणाः शमदमार्जवमार्दवादयस्त एव माणिक्यानि रत्नानि तेषां निधिनिधानं स सूरिरुत्प्रेक्ष्यते--गभीरतया त्रिजगजनातिशायिस्खगाम्भीर्येण सागरं पराभवत्पराजैषीदेिव । के कुर्वन् । परिशीलितमावालकालात्परिपालितं यत् शीलं ब्रह्मचर्य तस्य लीला विलासस्तया सकडालनानो नागंरजातिद्विजस्य नन्दनं पुत्रं श्रीस्थूलभद्रं तुलयन् सदृशीकुर्वन् ॥ निजधैर्यवदान्यताश्रिया विजिता येन सुराचलद्रुमाः। किमु तद्विजयाय मन्त्रणं सहवासच्छलतो वितन्वते ॥१३३ ॥ येन सृरिणा निजस्यात्मनो धैर्यस्य धैर्यताया घोरोपसर्गपरिषहनिष्कम्पतायाः, तथा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy