________________
२७७
६ सर्गः] हीरसौभाग्यम् । जापं स्मरणं परिपूर्य समाप्य परिपूर्णीकृत्य । किंभूतः । सूर्यस्येव देदीप्यमाना रुक् कान्तिर्यस्य । विधुरपि सूर्यस्य रुचो दीधितयो यस्मिन् । 'पुपोष वृद्धिं हरिदश्वदी. धितेरनुप्रवेशादिव बालचन्द्रमाः' इति रघौ ॥
स बभाज समाजमात्मना श्रमणानां श्रमणावनीमणिः ।
क्षितिमानिव बाहुजन्मनां विलसन्मङ्गलतूर्यनिखनैः ॥ ९६ ॥ • स प्रसिद्धः मूरिपरम्परायातः प्रणिधानविधाता वा श्रमणावनीमणिः यतिराजः
आत्मना स्वेन श्रमणानां साधूनां समाज पर्षदं वभाज शिधाय । क इव । क्षितिमानिव । यथा भूपतिर्बाहुब्रह्मणो भुजोत्पत्तियेषां ते बाहुजन्मान: क्षत्रियास्तेषाम् । 'क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः' इति हैम्याम् । 'तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भा-' इति नैषधेऽपि । सभां भजते । केः । विलसतां हर्षोत्कर्षात्प्रतिदिशं मधुरं वाद्यमानानां मङ्गलकारिणां तूर्याणां वाद्यानां निखनैर्निर्घोषैः । समम् ॥
जहिरे मिहिरौजसा महीपतिना वारचरास्तदा नराः।
भ्रमरा इव कोशशायिनो दिवववे स्मितपद्मराशिना ।। ९७ ।। तदा 'गुरोः सभायामागमनावसरे महीपांतेना शिवपुरीखामिदूदाभिधभूपतिना वारचराः कारागारनिवासिनो बन्दीजना जहिरे मुमुचिरे । किंभूतेन महीपतिना। मिहिरस्य भानोरिव । 'दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मि हिरो विरोचन:' इति हैम्याम् । ओजः प्रतापो यस्य । 'तदोजसस्तद्यशसः स्थिताविमो' इति नैषधे ।
ओजःशब्देनात्र प्रताप उच्यते । केनेव । स्मितपद्मराशिनेव । यथा दिनवक्रे प्रभाते विकचकमलकलापेन कोशेषु निजमुकुलेघु शेरते सूर्यास्तेन मुकुलीभूतेषु कुमलेषु निर्गमनानलंभूष्णुतया तत्रैव बद्धा इव तिष्ठन्तीत्येवंशीला भ्रमरा भृङ्गा हीयन्ते मु. च्यन्ते । 'तदप्यवेहि स्वशये शयालु' इति नैषधे । करस्थितमित्यर्थः ॥ इति विजयदानसूरिध्यानविधानानन्तरं बहिरागमनम् ॥ . तिनामिव तथ्यभाषिणां जनिभाजां विपिनाभ्रचारिणाम् । .. श्रमणेन्दुरवैक्षयत्पुनः स निमित्तानि निमित्तवेदिभिः ॥ ९८ ॥
स श्रमणेन्दुर्विजयदानसूरिचन्द्रः शकुनानि विन्दति जानन्तीति निमित्तवेदिनस्तै. निर्मितानि शकुनानि शुभानि तु .................. । तथा नैषधे 'हाहा प्रतीपपवनाशकुनान्न जग्मुः' इति पुनपुंसकत्वमुभयत्रात्र । केषाम् । विपिनेषु वनेषु अभ्रे आकाशे चरन्तीत्येवंशीला विपिनाभ्रचारिणस्तेषां मृगशृगालादयो वनचारिणः, चाषखजनशिखितित्तिरदेवीभारद्वाजादयो गगनचरास्तेषां रजनिभाजां प्राणिनाम् । किं. लक्षणानाम् । व्रतिनां साधूनामिव । तथ्यं सत्यं भाषते इत्येवंशीलास्तथ्यभाषिणः तेषाम् ॥