________________
२६८
काव्यमाला।
गणितं ह्यनुरागिरागवन्न विसस्मार स मानसान्निजात् ।
प्रसृतास्य मतिर्जिनागमेऽम्बुधिकाच्यामिव चक्रिणश्चमूः ॥ ६४ ॥ स हीरहर्षगणिर्गणितं संख्यानं शास्त्रं त्रिशतीलीलावतीप्रमुखं हि निश्चितं निजादा. त्मीयान्मानसाच्चित्तात् न विसस्मार न विस्मारयति स्म । किंवत् । अनुरागिरागवत् । यथा कोऽपि रागवान् पुमान् खानुरक्तीभूतजनस्नेहम् । तजनमेवेत्यर्थः । मनसः कदाचिन विस्मारयति । पुनरस्य मतिजिनागमे । आचाराङ्ग सूत्रकृदङ्ग स्थानाङ्ग-समयाङ्ग-विवाहविज्ञप्त्यङ्ग-ज्ञाताधर्मकथा उपासकदशाङ्ग-अनुत्तरोपपातिकादशाङ्ग-प्रश्नव्याकरणाङ्ग-विपा. कश्रुताङ्ग इत्येकादशाङ्गानि । अपातिका-राजप्रश्नीय-जीवाभिगम-प्रज्ञापना-चन्द्रप्रज्ञप्तीजम्बूद्वीपप्रज्ञप्ती-द्वीपसागरप्रज्ञप्ती-निरयावलिका-दशाश्रुतस्कम्-निशीथव्यवहार इति द्वादशोपाङ्गानि । क्वचिदन्यान्यपि । सूर्यप्रज्ञप्ति-जम्बूद्वीपप्रज्ञप्ती-चन्द्रप्रज्ञप्ती-कल्पिका-कल्पावतंसिका-पुष्पिता-पुष्पचूलिका-वृष्णिदशा इति । निशीथ-महानिशीथ पञ्चकल्प-जातकल्प-पर्युपणकल्प-व्यवहार इति षटू छेदाः । उत्तराध्ययन-पिण्डनियुक्ति-आवश्यक. दशवैकालिक इति चत्वारो मूलग्रन्थाः । चतु:शरण-आतुरप्रत्याख्यान-महाप्रत्याख्यानभक्तप्रकीर्णक-तण्डुलवैकालिक-चन्दाविस्मय-गणि विद्या-मरणविभक्तिक-देवेन्द्रस्तव संस्तारकप्रकीर्णक इति दशप्रकीर्णकानि । नन्दीसूत्र-अनुयोगधार इति पञ्चचत्वारिंशदागमाः । ते च वृत्तिभाष्यचूर्ण्यवचूरिनियुक्तिटिप्पनि ककर्मग्रन्थक्षेत्रविचार संग्रहणीचरित्रप्रमुखजैनशास्त्रे प्रसृता विस्तारं प्राप्ता। केव । चमूरिव । यथा चक्रिण: षट्खण्डाधिपतेः सेना अम्बुधिकाभ्यां समुद्रमेखलायामासमुद्रान्तक्षोणीमण्डले प्रसरति ॥
बहुना किमु तन्मनखिनोऽखिलषड्दर्शनशास्त्रमालिका ।
गलकन्दलमालिलिङ्ग याववत्खञ्जनमञ्जुलेक्षणा ॥ १५॥ बहुना किमु अर्थाद्वहुक्तेन किमस्तु । यद्यस्मात्कारणात् अखिलानि भाष्यटीकावचूरिमुख्याङ्गयुक्तानि जैननैयायिकबौद्धसांख्यवैशेपिकनास्तिकाख्यानां पण्णां दर्शनानां शात्राणां तन्मतप्रसिद्धानामागमानां प्रकरणानां च संततिः श्रेणिः स चासौ मनस्वी च अथ वा तस्य मनखिनो विशुद्धमानसस्य निष्पापस्य हीरहर्षगणेगलकन्दलं कण्ठपीठमालि लिङ्ग आलिङ्गति स्म । किंवत् । युववत् । यथा यूनस्तरुणस्य पुंसः कण्ठपीठं खञ्जनः खञ्जरीट: पक्षिविशेषः लोके 'गङ्गेटिउ' इति क्वचित्प्रसिद्धः अतिचपलस्वभावः तद्वन्मञ्जुले मनोज्ञे ईक्षणे नेत्रे यस्यास्तादृशी स्त्री आलिङ्गति। ‘भवत्कृते खञ्जनमञ्जुलाक्षी' इति पञ्चाशिकायाम् । 'अपि खन्जनमञ्जनाञ्चिते' इति नैषधे ॥ इति हीरहर्षगणेः स्वपरशास्त्रपरिज्ञानम् ॥
सविधे स्वगुरोः सगौरवं गमनायोत्सुकमाशयं ततः ।
अयमर्जितशास्त्रवैभवोऽधित सार्थेश इव व्रतीशिता ॥ ६६ ॥ ततः पठितानन्तरम् । अयं हीरहर्षनामा व्रतीशिता मुनिनायकः सगौरवं सबहुमानं