________________
२६६
काव्यमाला।
पादादितेयतो देवाचिन्तामणिनाम रत्नं गृहाति । किं कृत्वा । प्रथमं पूर्व तर्कशब्देन युनक्ति तादृशी परिभाषा नामप्रमाणा दिमशास्त्रं तन्मुखे आदी येषां तेषां तर्कपरिभाषामितभाषिणी-शशधर-मणिकण्ठ-वरदराजी-प्रशस्तपदभाष्य-वर्धमान-वर्धमानेन्दु-किरणावली-प्रमुखशास्त्राणां संग्रहमध्ययनं कृत्वा इत्यर्थः । स किं कुर्वन् । अतितीक्ष्णामतिशयेन निशितामनुत्तरामसाधारणी च प्रतिभा बुद्धिं कलयन् । क इव । कुश इव । यथा दर्भः अतितीक्ष्णां शिखामग्रभागं कलयति । शिखां किंभूताम् । अनुत्तराम् । तस्मादुत्तरोऽग्रे. तनवर्ती कोऽपि पदार्थो न तीक्ष्णः स्यादिति ॥
प्रतिभाविभवैः पठन्क्रमात्समयस्यास्य स पारमाप्तवान् ।
प्रचरन्पवमानवर्त्मनोऽध्वरथैर्भानुमतामिव व्रजः ॥ १८॥ स हीरहर्षगणिः क्रमादनुक्रमेण पठनपरिपाट्या पठन्नध्ययनं कुर्वाणः प्रतिभाविभवैः बुद्धिविशेषैः कृत्वा अस्य पाठकद्विजस्य समयग्य शास्त्रस्य पारमन्तं प्राप्तवान् लभते स्म । क इव । व्रज इव । यथा प्रचरन् प्रचारं कुर्वन् भानुमतां सूर्याणां समूहः द्वादशत्वा.. द्भानूनाम् । 'सूरस्त्वष्टा द्वादशात्मा च हेलिः' इति हैम्याम् । 'गुहनेत्र-राशि-भासा संक्रान्यादित्यचक्रिराजानः । चक्रबृहस्पतिहस्ताः सभासदो द्वादश भवन्ति ॥' इति संख्या नाममालायाम् । काव्यकल्पलतायां चेति वचनात् च ब्रजपदोपादानम् । जनमताच्च संख्याः । सूर्या: अध्वरथैः पारियानिकैः पवमानवर्त्मनो वायुमार्गस्य गगनस्य. पारमाप्नोति॥
अमुनाध्ययने समापिते द्विजराजद्रविणार्पणाविधौ ।
सुमनोलतिकेव केवलं जसमादेव्यजनिष्ट सा तदा ॥ ५९॥ अमुना हीरहर्षगणिना अध्ययने पठने समापिते संपूर्णीकृते सति तदा तस्मिन्नवसरे द्विजराजस्य पाठकब्राह्मणश्रेष्ठस्य द्रविणानां धनानामर्पणा प्रदानम् । 'चकारसेवाचणदपंणार्पणा' इति नैषधे । तस्या विधिः प्रकारस्तंत्र केवलमे केव सा पूर्वव्यावर्णितखरूपा देवसीदयिता जसमादेव्येव सुमनोलतिकेव कल्पवल्लीवाजनि । जसमादेव्येवं सर्वमपि पाठनद्रविणं वितीर्णमित्यर्थः ॥
शिरसीव शिवस्य जाह्नवी शरदश्चन्द्रमसीव जाह्नवी ।
अलिनीव मृणालिनीवने हृदि रेमेऽस्य गणेः कलन्दिका ॥ १० ॥ अस्यामुष्य हीरहर्षनाम्नो गणे«दि हृदयविषये कलन्दिका सर्व विद्या रेमे वसति स्फुर[पा वा जाता । केव । जाह्नवीव । यथा शिवस्येश्वरस्य शिरसि मस्तके जागवी गङ्गा रमते । 'धूर्जटिजटाजूट इव गङ्गया पुण्यसलिलै: प्रावितः' इति चम्पूकथायाम् । पुनः केव । चन्द्रिकेव । यथा शरदो घनात्ययसंवन्धिनि चन्द्रमसि विधौ कौमुदी रमते । पुनः केव । अलिनीव । यथा मृणालिनीनां कमलिनीनां वने भ्रमरी रमते ॥