SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १९३ ५ सर्गः] हीरसौभाग्यम् । इन्द्रवारणमिवेयमसारा संसृतिः कृतदुरन्तविकारा । पकिलावट इवात्र निममा निर्गमेन भविनः प्रभवन्ति ॥ १५ ॥ भो भव्याः, इयं संसृतिः संसार इन्द्रवारणनाम कटुकं फलं तद्वदसारा । इन्द्रवारणफलं हि बहिर्दश्यमानं रम्यं परंमध्ये निःसारम् अतिकटुकतया केनापि खादितुमशक्यत्वाद्विष. फलवत् तथा संसृतिरपि । किंभूता संसृतिः । कृतो निष्पादितो दुर्दुष्टोऽनन्तदुःखदा. यकत्वेन अन्तोऽवसानं यस्य तादृशो विकारो विकृतिर्यया । फलमपि दुष्टविकृतिकृत् । तथा अत्र संसारे निममा ब्रूडिताः । पतिता इत्यर्थः । भविनो जीवा निर्गमे निःसरणे विषये न प्रभवन्ति नैव समर्थीभवन्ति । निगोदादिष्वनन्तपुद्गलपरावर्तकर्तृत्वेन । क. स्मिन्निव । पतिलावट इव । यथा जम्बालजालाकलितकूपे निममा निमज्य स्थिता जन्तवो निर्गन्तुं न प्रभवन्ति ॥ नारकादिगतयोऽत्र चतस्रः संस्फुरन्त्यसुमतामिव पुर्यः । सन्ति भूपतिपथा इव लक्षा योनयश्चतुरशीतिरमूषु ॥ १६ ॥ भो भव्याः, अत्र संमृती असुमतां जन्तूनां चतस्रश्चतुःसंख्याका नारकादिगतयः । 'नरकस्तु नारकः स्यानिरयो दुर्गतिश्च सः' इति हैम्याम् । आदिशब्दात्तिर्यड्नरसुरलक्षणा गतयो गमनस्थानानि संस्फुरन्ति प्रकाशीभावं भजन्ति । का इव । पुर्य इव । यथा जन्तूनां वासस्थानां नगर्यो दृशन्ते । पुनरमूषु चतुर्गतिषु चतुरशीतिलक्षा योनयो जीवानामुत्पादस्थानकानि सन्ति वर्तन्ते । क इव । भूपतिपथा इव । यथा नगरीषु चतुरशीतिप्रमाणा राजमार्गा भवन्ति । 'चतुराशी चहुटा' इति लोकप्रसिद्धिः ॥ ___ मर्त्यजन्मनगरीमधिगत्य प्राणिनो भ्रमिवशेन कथंचित् । . दर्शनादिवरवस्त्वनवाप्तेरायुरेव धनवत्क्षपयन्ति ॥ १७ ॥ प्राणिनो जीवा दर्शनं सम्यक्त्वमादी येषां देशविरतिसर्वविरतिप्रमुखाणां वरवस्तूनां प्रधानपदार्थानामनवाप्तेरलाभात् धनवदर्थानीवीद्रव्यमिवायुजीवितकालमेव क्षपयन्ति निष्ठापयन्ति । किं कृला । भ्रमिवशेन भवपरम्परारण्यपरिभ्रमणप्रकारेण कथंचि. दृशदृष्टान्तैर्महता कष्टेन कृला मर्त्यजन्म मनुष्योत्पत्तिर्नाम नगरीमधिगत्य प्राप्य । 'अ. धिगत्य जगत्यधीश्वरात्' इति नैषधे । अधिगत्य । लब्ध्वा इत्यर्थः ॥ निर्गतायुरखिलद्रविणास्ते रङ्कचन्नरकवर्म भजन्तः। हा दुरागतदशा अशरण्या नित्यदुःखमनुभूय म्रियन्ते ॥ १८ ॥ हा इति खेदे । ते पूर्वोक्ताः प्राणिनः न विद्यते शरणागतसाधुः रक्षिता पालयिता वा येषां ते अशरण्या । शरणरहिता इत्यर्थः । तथा दुर्दुष्टा शोचनाही आगता दशा अवस्था येषां तादृशाः सन्तो नित्यमनिशं दुःखं क्लेशपरम्परामनुभूय विवध प्राप्य था नियन्ते । किं कुर्वन्तः । निर्गतं निष्टितं क्षयं प्राप्तमायुजीवितकालत देवाखिलं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy