________________
हीरसौभाग्यम् ।
विद्यासागरनामवाचकवरो यस्याथ दुर्हग्गणा
न्सेनानीरिव चक्रिणो रिपुनृपान्प्राक्स्वस्य वश्यान्व्यधात् ॥ १३५ ॥ इह भरत क्षेत्रदक्षिणार्धमध्यखण्डे व्रतीशितुः श्रीआनन्दविमलसूरेः क्रियायाः शुद्धानुठानस्योद्धारो विधानं नृणां भव्यजनानां द्वीप इवान्नर्जले तटमिव जज्ञे जातः । किंभूतानां नृणाम् | जैनार्थानां तीर्थकृत्संबन्धिनीनां प्रतिमानां, तथा श्रमणांनां साधूनामभावमसत्तां सिद्धान्ते क्वापि प्रतिमा प्रोक्ता नास्ति, गुर्जरादिदेशेषु साधवः सर्वथा न सन्तीति भणनं लुम्पाककटुकमतीनां कथनम् । इत्याद्यपरापरकुपक्षिपक्षखख कपोलकल्पित कुमतवादरूपैरम्भोभिः प्रवर्धमाननीरपूरैः प्लाव्यमान उपद्यमाणो विविधोद्धतकुमतिमतसंत. तसलिलप्लवे । ब्रुडन्नित्यर्थः । आत्मा येषाम् । अथ क्रियोद्धारानन्तरं कियति समये व्यतिक्रान्ते सति अथ पुनर्यस्य सूरेविद्यासागर इति नाम यस्य तादृशो वाचकवरः उपाध्यायश्रेष्टः दुई ग्गणान् कुमतिसमूहान् खवश्यानात्मायत्तान् सूरिशासनविधायिनो व्य धात् कृतवान् । क इव । सेनानीरिव । यथा चक्रिणचमूपतिः रिपुनृपान् प्राक् प्रत्यक् खण्डादिम्लेच्छभूपालान् स्ववश्यान् चक्रवर्ति निर्देशकारिणः कुरुते ॥
प्रातः साधुवृतस्त्वदापणपुगे यो याति सूरीशिता सम्यक्संयमवान्स पूर्वगणिवत्सेव्यस्त्वयाहर्निशम् । स्वप्नेऽस्वमगिरेति यं निजगृहे नीत्वातिभक्त्या प्रभुं
श्राद्धः कश्चन मण्डपाद्भिवसतिर्भेजे सगोत्रैः समम् || १३६ ॥
४ सर्गः ]
१८३
कथन कोsपि मण्डपा मण्डपाचले वसतिगृहं यस्य तादृक् श्राद्धः कटुकमतिरास्तिक: स्वप्ने स्वापावस्थायामित्यमुना प्रकारेणास्वप्नगिरा पूर्वजसुरवचनेन अतिभक्तया • कृत्वा निजगृहे वसीधे नीत्वा समानीय यं प्रभुं स्वगोत्र: खखर्जनः समं भेजे श्राद्धीभूयाराधयति स्म । इति किम् । हे वत्स, त्वं तु दुर्वादिव्रातविविधविरुद्धालपनाकर्णनाकलितानेककल्पनाजनितसंशीतिव्याकुली कृत नेक लोक कलियुगानुभावात्कटुमतिरसि । तथापि प्रातः प्रभाते यामानन्तरमष्टभिः साधुभिः श्रमणैः परिवृतः परिकलितः यः सूरीशिता सूरीन्द्रः त्वदापणस्य तव हट्टस्य पुरोऽग्रे याति गच्छति, स सूरिरस्मिन् कलियुगे सम्यक् संयमवान् । विशुद्धचारित्रकलितः त्वया भवताहर्निशं निरन्तरं पूर्वगणिवत् प्राचीनाचार्य इव सेव्य उपासनीय: । 'साने प्रवचनेऽधीती गणिरनूचा. नथ' इति हैम्याम् । तस्याभिज्ञानं तव हस्ते कुसुमान्यर्पयामीति जागरणेऽपि पाणी पुष्पाणि दृष्टवान् खजनानां च स्वप्ननिवेदनपूर्वे दर्शितवांश्चेति काव्येऽनुक्तमपि जातत्वाद्वृत्तौ प्रोक्तम् ॥
तमःस्तोमप्राये कुनयनगणैर्दारुणतमे
कलौ श्रीसूरीन्दुः शरणमभवद्यो जनिमताम् ।