SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] __ १२५ हीरसौभाग्यम् । दृग्दोपखण्डनकृते भ्रमरं तदीये चिहं मषेरिव मुखे कृतवान्विरश्चिः । विश्वप्रदीपसदृशो यदसौ तदीया नासापि किं भजति दीपशिखोपमानम् ॥ ९१ ॥ विरश्चिब्रह्मा तदीये हीरकुमारसंवन्धिनि मुखे वदने भ्रमरं कुरलं भ्रमरालकः अन्यो वा आकारविशेषस्तं कृतवान् चकार। उत्प्रेक्ष्यते-दृग्दोषखण्डनकृते शाकिन्यादीनामितरेषां वा दृष्टिदोषनिवारणार्थ मषेमलिनाम्बुनः । 'मलिनाम्बु मषी मसी' इति हैम्याम् । चिहं लाञ्छनमिव कृतवानिति । इदानीमपि बालकानां दृग्दोषच्छिदे मुखे कजलचन्द्रकं मात्रः कुर्वन्तीति प्रसिद्धमेतत् । पुनर्यत्कारणादसौ विश्वे जगति प्रदीपस्य पदार्थमार्थप्रकाशकत्वेन गृहमणेः सदृशस्तुल्योऽस्ति यत्तदोः संबन्धात्तेन हेतुना । उत्प्रेक्ष्यतेतदीया तस्य कुमारस्य इयं तदीया नासा गन्धज्ञापि दीपशिखोपमानं कजलध्वजकलिकातुलनां भजति कलयति ॥ चापल्यकेलिकलिते असिताशये य नेत्रे मिथः सदृशवैभवभाजिनी तत् । मा द्रुह्यतां कजभुवेति तदन्तराले नासानिभेन विदधे किमु सीमदण्डः ॥ ९२ ॥ यत्कारणात् यन्नेत्रे कुमारनयने चापल्यं चपलता सैव केलि: क्रीडा तया कलिते युक्त चञ्चलतया वा यत्क्रीडनमितस्ततः परिस्फुरणं तेन सहिते । पुनः असितः श्याम आशयो मध्य खभावो वा ययोस्तादृशे स्तः वर्तेते तत्तस्मात्कारणात् सदृशं तुत्यं वैभवं शोभातिरेकं भजत इत्येवंशीले भाजिनी कुमारलोचने मिथ: परस्परं मा द्रुह्यतां मा द्रोहं कुर्वाताम् इति हेतोः कजभुवा ब्रह्मणा तदन्तराले तयोर्नेत्रयोरन्तराले मध्यभागे नासानिभेन नक्रकपटेन । उत्प्रेक्ष्यते-सीमदण्डो विभागयष्टिः किमु विदधे कृत इव ॥ . . स्थाणोः शिरोनिवसनानशनाम्बुपानं ___ संतप्य दुस्तपतपो मणिदर्पणेन । प्रापे परं जनुरिवेदमगण्यपुण्य संप्रापणीयमदसीयकपोलरूपम् ॥ ९३ ॥ मणिदर्पणेन रत्नादर्शन अस्य कुमारस्य इमौ अदसीयो कपोलो गण्डौं तयो रूपं ख. रूपमिदं प्रत्यक्षम् । उत्प्रेक्ष्यते-परमन्यजनुरवतारः प्रापे प्राप्तमिव । किंभूतं जनुः । अगण्येन गणयितुं प्रमाणीकर्तुमशक्येन पुण्येन भाग्येन संप्रापणीयं सम्यकप्रकारेण लब्धुं योग्यम् । किं कृत्वा । दुःखेन कष्टेन तप्यते विधीयते इति दुस्तपं तादृक् तप
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy