SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ २ सर्गः हीरसौभाग्यम् । आनन्दाद्वयवादमेदुरमना मध्ये सखीनामिति प्रारब्धाभिनवोक्तियुक्तिरचना वाग्देवताश्रीजुषाम् । देवीनां जयवाहिनीव सुमनोवल्लीव वा वीरुधां __ताराणां विधुमण्डलीव महिला कामप्यवाप श्रियम् ॥ १४१ ॥ सा महिला नाथी देवी सखीनां स्ववयसी(स्या)नां मध्ये स्थिता सती कामप्यनिर्व. चनीयां श्रियं शोभामवाय लेभे । किंभूता सा । आनन्दस्य प्रमोदस्य योऽद्वयवादोऽद्वैतता तेन मेदुरं पुष्टं मनो यस्याः । किभूतानां सखीनाम् । इति पूर्वोक्तप्रकारेणारब्धाः प्रकाशिता अभिनवा नृतना उक्तयो वार्तास्तासां युक्तीनां योजनानां न्यायानां रचनाः संदर्भास्तैः कृत्वा तानु वा वाग्देवतायाः सरस्वत्याः श्रीजुषां शोभाभाजां वाग्वादिनीवद्वा लक्ष्मीभृताम् । केव कासां मध्ये श्रियमाप्नोति । देवीनां देवाङ्गनानां मध्ये जयवाहिनी इन्द्राणीव । पुनः केव । वीरुधां वल्लीनां मध्ये सुमनोवल्ली कल्पलतेव । ताराणां तारकाणाम् । 'भकनीनिकयोस्ताराः' इति लिङ्गानुशासने । पुंस्त्रीलिङ्गे ताराशब्दः । मध्ये विधुमण्डली चन्द्रविम्बमिव । 'कुवलयमृणालमण्डला' इति लिङ्गानुशासने मण्डलशब्दस्त्रिलिङ्गे ॥ यं प्रासूत शिवाहसाधुमथवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । नद्रालीक्रमसेविदेवविमलव्यावणिते हीरयु. क्सौभाग्याभिधहीरसूरिचरिते सर्गो द्वितीयोऽभवत् ॥ १४२॥ पण्डितदेवविमलगणिव्यावणिते हीरसौभाग्याभिधे महाकाव्ये हीरविजयसूरिचरिते द्वितीयः सर्गोऽभवत् जातः ॥ इति पण्डितश्रीसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये कुंरानाथीमजस्वप्न-तजागरिका-ऋषभदेवभरतदिग्विजय-सखीकथितभरतदिग्विजयादि-रात्रिविरामदिनकरोदयवर्णनो नाम द्वितीयः सर्गः ॥ - तृतीयः सर्गः। कल्पद्रुमाङ्करमिवामरशैलभूमी रत्नं विदूरधरणीव घनस्वनोत्थम् । · अन्तर्मदोदयमिवेभकपोलपाली _ नाथी ततोऽवहत दोहदलक्षणं सा ॥ १ ॥ ततः स्वप्नदर्शनधर्मजागरिकरणानन्तरं सा कुंरामभ्यपनी नाथीदेवी दोहदलक्षणं गर्भ
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy